________________
९६
ध्यानशतकम्, गाथा-६३ Parasataramatataaraamanararamatarataaraaaaaaadaratadatarndan मुनयः साधवः क्षीणोपशान्तमोहाच इति क्षीणमोहाः-क्षपकनिर्ग्रन्था उपशान्तमोहाः -
सुमेरुरिव निष्कम्पः, शशीवानन्ददायकः । समीर इव निःसङ्गः, सुधीर्ध्याता प्रशस्यते ।। ७ ।।
-योगशास्त्रे प्र-७ ।। D मनसश्चेन्द्रियाणां च, जयाद्यो निर्विकारधीः । धर्मध्यानस्य स ध्याता, शान्तो दान्तः प्रकीर्तितः ।। ६२ ।। परैरपि यदिष्टं च, स्थितप्रज्ञस्य लक्षणम् । घटते ह्यत्र तत्सर्वं, तथा चेदं व्यवस्थितम् ।। ६३ ।। प्रजहाति यदा कामान्, सर्वान् पार्थ ! मनोगतान् । आत्मन्येवाऽऽत्मना तुष्टः, स्थितप्रज्ञस्तदोच्यते ।। ६४ ।। दुःखेष्वनुद्विग्नमनाः, सुखेषु विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीर्मुनिरुच्यते ।। ६५ ।। यः सर्वत्राऽनभिस्नेह-स्तत्तत् प्राप्य शुभाऽशुभम् । नाऽभिनन्दति न द्वेष्टि, तस्य प्रज्ञा प्रतिष्ठिता ।। ६६ ।। यदा संहरते चाऽयं, कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्य-स्तस्य प्रज्ञा प्रतिष्ठिता ।। ६७ ।। शान्तो दान्तो भवेदी-गाऽऽत्मारामतया स्थितः । सिद्धस्य हि स्वभावो यः, सैव साधकयोग्यता ।। ६८ ।।
- अध्यात्मसारे, अ. १६ ।। E जितेन्द्रियस्य धीरस्य, प्रशान्तस्य स्थिराऽऽत्मनः ।
सुखाऽऽसनस्य नासाग्र-न्यस्तनेत्रस्य योगिनः ।। ६ ।। रुद्धबाह्यमनोवृत्ते-र्धारणाधारया रयात् । प्रसत्रस्याप्रमतस्य, चिदानन्दसुधालिहः ।। ७ ।। साम्राज्यमप्रतिद्वन्द्व-मन्तरे च वितन्वतः । ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि ।। ८ ।।
-ज्ञानसारे, अ.३० ।। F ज्ञानवैराग्यसम्पन्नः, संवृतात्मा स्थिराशयः । क्षीणोपशान्तमोहश्चाऽ-प्रमादी ध्यानकारकः ।। १३० ।। शुद्धसम्यक्त्वदर्शी च, श्रुतज्ञानोपयोगवान् । दृढसंहननो धीरः, सर्वषट्जीवपालकः ।। १३१ ।। सत्यवाक् दत्तभोजी च, ब्रह्मचारी पवित्रहत् । स्त्रीकामचेष्टयास्पृष्टो, निःसंगो वृद्धसेवकः ।। १३२ ।। निराशो निष्कषायी च, जिताक्षो निष्परिग्रही । निर्ममः समतालीनो ध्याता स्यात् शुद्धमानसः ।। १३३ ।।
-ध्यानदीपिकायाम् ।। [अवबुध्यते ज्ञातुरभ्यन्तरस्वरूपं गुणगरिमाद्वारेण । - सम्पा०] [२]A मू० x x xआज्ञाऽपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तस्य ।। ९-३७ ।। वृ. xxxतदेतदप्रमत्तसंयतस्य भवति धर्मध्यानं प्रमत्तसंयतस्थानाद् विशुद्ध्यमानाध्यवसायोऽप्रमत्तस्थान
माप्नोति । यथोक्तम्“निर्माता एव तथा, विशोधयोऽसङ्ख्यलोकमात्रास्ताः । तरतमयुक्ता या अधि-तिष्ठन् यतिरप्रमत्तः स्यात् ।। १ ।।" । अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराणि आरोहतः ऋद्धिविशेषाः प्रादुर्भवन्त्यणिमादयः । उक्तं हि -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org