Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 201
________________ ६८ २२ ध्यानशतकम्, गाथा- ४३ प्रश्न 1 आलंबणाइ० गाहा ।। इह धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनाअ- परावर्तना - ऽनुचिन्ता इति । तंत्र वाचनं वाचना विनेयाय निर्जरायै सूत्रादिदानमित्यर्थः, शङ्कते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्न इति, परावर्तनं तु पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति, अनुचिन्तनम् अनुचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचना च प्रश्नश्चेत्यादि द्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि च इति, अमूनि तु चरणधर्मानुगतानि वर्तन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, सामायिकं प्रतीतम्, आदिशब्दान्मुख - वस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारी परिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेति विग्रहः, आवश्यकानि नियमतः करणीयानि, चः समुच्चये इति गाथार्थः ।।४२।। साम्प्रतममीषामेवाऽऽलम्बनत्वे निबन्धनमाह azadazašašažačača विंसमंमि समारोहइ दढदव्वालंबणो जहा पुरिसो । सुताइकालंबो तह झाणवरं समारुहइ ।।४३ ॥ A मू० वाचना- प्रच्छना - ऽनुप्रेक्षा ऽऽम्नाय - धर्मोपदेशाः ।।९-२५।। भा० स्वाध्यायः पञ्चविधः । तद्यथा - वाचना, प्रच्छनम्, अनुप्रेक्षा, आम्नायः, धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्तनं गुणनम्, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानमनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ।। २५ ।। वृ० स्वाध्यायः पञ्चविध इत्यादि । तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति तत्र वाचनेत्यादि । शिष्याणामध्यापनं वाचना कालिकस्योत्कालिकस्य वाऽऽलापकप्रदानम् । ग्रन्थः सूत्रार्थः सूत्राभिधेयं तद्विषयं प्रच्छनम् । सन्देहे सति ग्रन्थार्थयोर्मनसाऽभ्यासोऽनुप्रेक्षा । न तु बहिर्वर्णोच्चारणमनुश्रावणीयम् । आम्नायोऽपि परिवर्तनम् उदातादिपरिशुद्धमनुश्रावणीयमभ्यासविशेषः । गुणनं सङ्ख्यानं पदाक्षरद्वारेण रूपादानमेकरूपम् । एका परिपाटी द्वे रूपे त्रीणि रूपाणीत्यादि । धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवर्णनमनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति ।। २५ ।। - तत्वार्थ सिद्ध. वृत्तौ ॥ Jain Education International 2010_02 १ A आरोहति दृढद्रव्या-लम्बनो विषमं पदम् । तथाऽऽरोहति सद्ध्यानं, सूत्राद्याऽऽलम्बनाऽऽश्रितः ।। ३२ ।। आलम्बनादरोद्भूत- प्रत्यूहक्षययोगतः । ध्यानाद्यारोहणभ्रंशो, योगिनां नोपजायते ।। ३३ ।। - अध्यात्मसारे, अ. १६ ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302