Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 234
________________ धर्मध्याने ध्यातृद्वारम् १०१ वृ. xxx तस्मादनपेतं धयं ध्यानं चतुर्विकल्पमवसेयम् । तदविरत-देशविस्त-प्रमत्ताऽ-प्रमत्तसंयतानां भवति ।। -तत्त्वार्थ. सर्वा. वृत्तौ ।। C मू. आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ।। ९-३६ ।। वृ. xxx धर्म्यमप्रमत्तस्येति चेत्, न, पूर्वेषां विनिवृत्तिप्रसङ्गात् ।। १३ ।। कश्चिदाह- धर्म्यमप्रमत्तसंयतस्यैवेति, तन्न, किं कारणम्? पूर्वेषां विनिवृत्तिप्रसङ्गात् । असंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयतानामपि धर्म्यध्यानमिष्यते सम्यक्त्वप्रभवत्वात् । यदि धर्म्यमप्रमत्तस्यैवैत्युच्येत तर्हि; तेषां निवृत्तिः प्रसज्येत् । उपशान्तक्षीणकषाययोश्चेति चेत्, न, शुक्लाभावप्रसङ्गात् ।। १४ ।। कश्चिदाह-उपशान्तक्षीणकषाययोश्च धर्म्य ध्यानं भवति न पूर्वेषामेवेति; तन्नः किं कारणम् ? शुक्लाभावप्रसङ्गात् । उपशान्तक्षीणकषाययोर्हि शुक्लध्यानमिष्यते तस्याभावः प्रसज्येत। तदुभयं तत्रेति चेत्, न; पूर्वस्यानिष्टत्वात् । १५ । स्यादेतत् - उभयं धर्म्य शुक्लं चोपशान्तक्षीणकषाययोरस्तीति? तन्न; किं कारणम् ? पूर्वस्यानिष्टत्वात् । पूर्वं हि धर्म्य ध्यानं श्रेण्योर्नेष्यते आर्षे, पूर्वेषु चेष्यते । xxx ।। ९-३६ ।। आह - यदि धर्म्यध्यानमविरतदेशविरतप्रमत्ताप्रमत्तसंयतान्तानां भवति, अथ शुक्लध्यानं कस्येति? xxx -तत्त्वार्थवार्तिके ।। D तदप्रमत्ततालम्बं, स्थितिमान्तर्मुहूर्तिकीम् । दधानमप्रमत्तेषु, परां कोटिमधिष्ठितम् ।। १५५ ।। सदृष्टिषु यथाम्नायं, शेषेष्वपि कृतस्थितिः । प्रकृष्टशुद्धिमल्लेश्या-त्रयोपोद्बलबृंहितम् ।। १५६ ।। -आदिपुराणे, पर्व २१ ।। E अनपेतस्य धर्म्यस्य, धर्मतो दशभेदतः। चतुर्थः पञ्चमः षष्ठः, सप्तमश्च प्रवर्तकः ।। १७ ।। - अमि. श्रावकाचारे, परि. १५ ।। F तत्रासत्रीभवन्मुक्तिः, किञ्चिदासाद्य कारणम् । विरक्तः कामभोगेभ्य-स्त्यक्तसर्वपरिग्रहः ।। ४१ ।। अभ्येत्य सम्यगाचार्य, दीक्षां जैनेश्वरीं श्रितः । तपःसंयमसम्पन्नः, प्रमादरहिताशयः ।। ४२ ।। सम्यग्निीतजीवादि-ध्येयवस्तुव्यवस्थितिः । आर्त्तरौद्रपरित्यागा-लब्धचित्तप्रसत्तिकः ।। ४३ ।। मुक्तलोकद्वयापेक्षः, षोढाऽशेषपरिषहः । अनुष्ठितक्रियायोगो, ध्यानयोगे कृतोद्यमः ।। ४४ ।। महासत्वः परित्यक्त-दुर्लेश्याऽशुभभावनः । इतीदृग्लक्षणो ध्याता, धर्मध्यानस्य सम्मतः ।। ४५ ।। अप्रमत्तः प्रमत्तश्च, सदृष्टिर्देशसंयतः । धर्मध्यानस्य चत्वार-स्तत्त्वार्थे स्वामिनः स्मृताः ।। ४६ ।। मख्योपचारभेदेन, धर्मध्यानमिह द्विधा । अप्रमत्तेष तन्मख्य-मितरेष्वौपचारिकम् ।। ४७ ।। -तत्त्वानुशासने ।। G मुख्योपचारभेदेन, द्वौ मुनी स्वामिनौ मतौ । अप्रमत्तप्रमत्ताख्यौ, धर्मस्यैतौ यथायथम् ।। २५ ।। अप्रमत्तः सुसंस्थानो, वज्रकायो वशी स्थिरः । पूर्ववित्संवृत्तो धीरो, ध्याता संपूर्णलक्षणः ।। २६ ।। श्रुतेन विकलेनापि, स्वामी सूत्रे प्रकीर्तितः । अधः श्रेण्यां प्रवृत्तात्मा, धर्मध्यानस्य सुश्रुतः ।। २७ ।। -ज्ञानार्णवे, सर्ग २८ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302