________________
६८
२२
ध्यानशतकम्, गाथा- ४३
प्रश्न
1
आलंबणाइ० गाहा ।। इह धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनाअ- परावर्तना - ऽनुचिन्ता इति । तंत्र वाचनं वाचना विनेयाय निर्जरायै सूत्रादिदानमित्यर्थः, शङ्कते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्न इति, परावर्तनं तु पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति, अनुचिन्तनम् अनुचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचना च प्रश्नश्चेत्यादि द्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि च इति, अमूनि तु चरणधर्मानुगतानि वर्तन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, सामायिकं प्रतीतम्, आदिशब्दान्मुख - वस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारी परिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेति विग्रहः, आवश्यकानि नियमतः करणीयानि, चः समुच्चये इति गाथार्थः ।।४२।। साम्प्रतममीषामेवाऽऽलम्बनत्वे निबन्धनमाह
azadazašašažačača
विंसमंमि समारोहइ दढदव्वालंबणो जहा पुरिसो । सुताइकालंबो तह झाणवरं समारुहइ ।।४३ ॥
A मू० वाचना- प्रच्छना - ऽनुप्रेक्षा ऽऽम्नाय - धर्मोपदेशाः ।।९-२५।। भा० स्वाध्यायः पञ्चविधः । तद्यथा - वाचना, प्रच्छनम्, अनुप्रेक्षा, आम्नायः, धर्मोपदेश इति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्तनं गुणनम्, रूपादानमित्यर्थः । अर्थोपदेशो व्याख्यानमनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् ।। २५ ।।
वृ० स्वाध्यायः पञ्चविध इत्यादि । तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति तत्र वाचनेत्यादि । शिष्याणामध्यापनं वाचना कालिकस्योत्कालिकस्य वाऽऽलापकप्रदानम् । ग्रन्थः सूत्रार्थः सूत्राभिधेयं तद्विषयं प्रच्छनम् । सन्देहे सति ग्रन्थार्थयोर्मनसाऽभ्यासोऽनुप्रेक्षा । न तु बहिर्वर्णोच्चारणमनुश्रावणीयम् । आम्नायोऽपि परिवर्तनम् उदातादिपरिशुद्धमनुश्रावणीयमभ्यासविशेषः । गुणनं सङ्ख्यानं पदाक्षरद्वारेण रूपादानमेकरूपम् । एका परिपाटी द्वे रूपे त्रीणि रूपाणीत्यादि । धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवर्णनमनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति ।। २५ ।।
- तत्वार्थ सिद्ध. वृत्तौ ॥
Jain Education International 2010_02
१
A आरोहति दृढद्रव्या-लम्बनो विषमं पदम् । तथाऽऽरोहति सद्ध्यानं, सूत्राद्याऽऽलम्बनाऽऽश्रितः ।। ३२ ।। आलम्बनादरोद्भूत- प्रत्यूहक्षययोगतः । ध्यानाद्यारोहणभ्रंशो, योगिनां नोपजायते ।। ३३ ।। - अध्यात्मसारे, अ. १६ ।।
For Private & Personal Use Only
www.jainelibrary.org