________________
६७
धर्मध्याने आसनाऽऽलम्बनद्वारे Parasataranakarararamataranakararararakarakaranatakarararakaranatakaranatara
तो देस-काल-चेट्टानियमो झाणस्स नत्थि समयंमि ।
जोगाण समाहाणं जह होइ तहा पयइयव्वं ।।४१।। सव्वासु० गाहा ।। सर्वासु इत्यशेषासु देश-काल-चेष्टासु इति योगः, चेष्टादेहावस्था, किम् ? वर्तमाना अवस्थिताः, के ? मुनयः प्राग्निरूपितशब्दार्था यद् यस्मात्कारणात्, किम् ? वरः प्रधानश्चासौ केवलादिलाभश्च वरकेवलादिलाभः, तं प्राप्ता इति, आदिशब्दान्मनःपर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः? न, केवलवर्ज बहुशोऽनेकशः, किंविशिष्टाः ? शान्तपापास्तत्र पातयति नरकादिष्विति पापम्, शान्तम्-उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः ।।४०।।
तो देस० गाहा ।। यस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्माद्देशकाल-चेष्टानियमो ध्यानस्य नास्ति न विद्यते । क्व ? समये आगमे, किन्तु योगानां मनःप्रभृतीनां समाधानं पूर्वोक्तं यथा भवति तथा प्रयतितव्यं यत्नः कार्य इत्यत्र नियम एवेति गाथार्थः ।।४१।। गतमासनद्वारम्, अधुनाऽऽलम्बनद्वारावयवार्थप्रतिपादयन्नाह -
आलंबणाई वायण-पुच्छण-परियट्टणाऽणुचिंताओ ।
सामाइयाइयाइं सद्धम्मावस्सयाइं च ।।४२।। RA_xxx धम्मस्स णं झाणस्स चत्तारि आलंबणा पं० तं. वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा... ।।
-स्था. सू. २४७, भग. सू. ८०३ औप. सू.-२०, ।। वृ०... धर्मस्यालम्बनान्युच्यन्ते-धर्मध्यानसौधारोहणार्थमालम्ब्यन्त इत्यालम्बनानि वाचनं वाचना विनेयाय
निर्जरायै सूत्रदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्तनेति, अनुप्रेक्षणमनुप्रेक्षा सूत्रार्थानुस्मरणमिति ।xxx ||
-स्थानाङ्गसूत्रवृत्तौ ।। B आलंबणाणि च से चत्तारि, जथा-विसमसमुत्तरणे वल्लिमादीणि, तंजथा-वायणा पुच्छणा परियट्टणा
अणुप्पेहा, धम्मकहा परियट्टणे पडति । एवं विभासेज्जा ।। -आवश्यकचूर्णी ।। वाचना चैव पृच्छा च, परावृत्त्यनुचिन्तने ।
क्रिया चाऽऽलम्बनानीह, सद्धर्माऽऽवश्यकानि च ।। ३१ ।। - अध्यात्मसारे, अ. १६ ।। D आलम्बनानि धर्मस्य, वाचनाप्रच्छनादिकः । स्वाध्यायः पंचधा ज्ञेयो, धर्मानुष्ठानसेवया ।। ११८ ।।
- ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org