________________
ध्यानशतकम्, गाथा-३९, ४० Pataranakaraarararararatantaraantaraaraaratatasamratadaradaradaras तथा चाह-कालोऽपि स एव, ध्यानोचित इति गम्यते, यत्र काले योगसमाधान मनोयोगादिस्वास्थ्यम् उत्तम प्रधानं लभते प्राप्नोति ।।
न तु न पुन व च, तुशब्दस्य पुनःशब्दार्थत्वादेवकारार्थत्वाद्वा । किम् ? दिवसनिशा-वेलादिनियमनं ध्यायिनो भणितमिति । दिवस-निशे प्रतीते, वेला सामान्यत एव तदेकदेशो मुहूर्तादिः, आदिशब्दात्पूर्वाह्नापराह्लादि वा, एतनियमनं दिवैवेत्यादिलक्षणं ध्यायिनः सत्त्वस्य भणितम् उक्तं तीर्थंकर-गणधरैनैवेति गाथार्थः ।।३८ ।। गतं कालद्वारम्, साम्प्रतमासनविशेषद्वार व्याचिख्यासयाऽऽह -
जैच्चिय देहावत्था जिया ण झाणोवरोहिणी होइ ।
झाइज्जा तदवत्थो ठिओ निसण्णो 'निवण्णो वा ।।३९।। जञ्चिय० गाहा ।। इह यैव या काचिद् देहावस्था शरीरावस्था निषण्णतादिरूपा, किम् ? जिता इत्यभ्यस्ता उचिता वा, तथाऽनुष्ठीयमाना न ध्यानोपरोधिनी भवति नाधिकृतधर्मध्यानपीडाकरी भवतीत्यर्थः, ध्यायेत् तदवस्थ इति तयावस्थया यः स्थितस्तदवस्थः । तामेव विशेषतः प्राह - स्थितः कायोत्सर्गेणेषन्नतादिना निषण्ण उपविष्टो वीरासनादिना निर्विण्णः सन्निविष्टो दण्डायतादिना वा विभाषायामिति गाथार्थः ।।३९।। आह - किं पुनरयं देश-काला-ऽऽसनानामनियम इति ? अत्रोच्यते -
सव्वासु वट्टमाणा मुणओ जं देस-काल-चेट्ठासु । वरकेवलाइलाभं पत्ता बहुसो समियपावा ।।४०।।
[१]A यैवाऽवस्था जिता जातु, न स्याद् ध्यानोपघातिनी । तया ध्यायेत्रिषण्णो वा, स्थितो वा शयितोऽथवा ।। २९ ।।
-अध्यात्मसारे, अ. १६ ।। B पद्मासनादिना येना-सनेनैव सुखी भवेत् । ध्यानं तेनासनेन स्याद्, ध्यानिनां ध्यानसिद्धये ।। ११६ ।। पूर्वाभिमुखो ध्यानी, चोत्तराभिमुखोऽथवा । प्रसन्नवदनो धीरो, ध्यानकाले प्रशस्यते ।। ११७ ।।
-ध्यानदीपिकायाम् ।। (गाथा-४०) १] A सर्वासु मुनयो देश-कालावस्थासु केवलम् । प्राप्तस्तनियमो नाऽऽसां, नियता योगसुस्थता ।। ३० ।।
-अध्यात्मसारे, अ. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org