SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ धर्मध्याने देशकालद्वारे atararararararararararararararakaraaratatasterstaterararandaramataratale समाधानं स्वास्थ्यं भवति जायते, केषामिति ? अत आह - मनोवाक्काययोगानां प्राग्निरूपितशब्दार्थानामिति । आह - मनोयोगसमाधानमस्तु, वाक्काययोगसमाधानं तत्र क्वोपयुज्यते, न हि तन्मयं ध्यानं भवति ? अत्रोच्यते - तत्समाधानं तावन्मनोयोगोपकारकम्, ध्यानमपि च तदात्मकं भवत्येव । यथोक्तम् - "एवंविहा गिरा मे वत्तव्वा एरिसी न वत्तव्वा । इय वेयालियवक्कस्स भासओ वाइगं झाणं ।।१।। [आव. नि. १४७७] तथासुसमाहियकर-पायस्स अकज्जे कारणमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ।।२।।" [ न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानिपृथिव्यादीनि, उपरोधः - तत्सङ्घट्टनादिलक्षणः, तेन रहितः-परित्यक्तो यः ‘एकग्रहणे तज्जातीयग्रहणाद्' अनृता-ऽदत्तादान-मैथुन-परिग्रहाद्युपरोधरहितश्च स देशो ध्यायतश्चिन्तयतः, उचित इति शेषः, अयं गाथार्थः ।।३७ ।। गतं देशद्वारम्, अधुना कालद्वारमभिधित्सुराह कालोऽवि सोच्चिय जहिं जोगसमाहाणमुत्तमं लहइ । न उ दिवस-निसा-वेलाइनियमणं झाइणो भणियं ।।३८।। कालोवि० गाहा ।। कलनं कालः कलासमूहो वा, स चार्द्धतृतीयेषु द्वीप-समुद्रेषु चन्द्र-सूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः ।। १]A यत्र योगसमाधानं, कालोऽपीष्टः स एव हि । दिनरात्रिक्षणादीनां, ध्यानिनो नियमस्तु न ।। २८ ।। -अध्यात्मसारे, अ. १६ ।। B यत्र काले समाधानं, योगानां योगिनो भवेत् । ध्यानकालः स विज्ञेयो, दिनादेनियमोऽस्ति नः ।। ११५ ।। - ध्यानदीपिकायाम् ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy