________________
६४
ध्यानशतकम्, गाथा-३६, ३७ sssssssssssssssssssssanskaternatakaraastaaskare इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम्, अधुना परिणतयोगादीनधिकृत्य विशेषमाह
'थिर-कयजोगाणं पुण मुणीण झाणे सुनिञ्चलमणाणं ।
गामंमि जणाइण्णे सुण्णे रणे व ण विसेसो ।।३६।। थिरकय० गाहा ।। तत्र स्थिराः संहनन-मनोधृतिभ्यां बलवन्त उच्यन्ते, कृता निर्वतिता अभ्यस्ता इति यावत् । के ? युज्यन्त इति योगा ज्ञानादिभावनाव्यापाराः सत्त्वसूत्र-तपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च ते कृतयोगाश्चेति विग्रहस्तेषाम् ।।
__ अत्र च स्थिर-कृतयोगयोश्चतुर्भङ्गी भवति । तद्यथा- 'थिरे णामेगे णो कयजोगे' इत्यादि, स्थिरा वा पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषाम् ।
पुनःशब्दो विशेषणार्थः । किं विशिनष्टि ? तृतीयभङ्गवतां न शेषाणाम्, स्वभ्यस्तयोगानां वा मुनीनामिति मन्यन्ते जीवादीन् पदार्थानिति मुनयो-विपश्चित्साधवस्तेषां च, तथा ध्याने अधिकृत एव धर्मध्याने सुष्टु अतिशयेन निश्चलं निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम्, एवंविधानां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेष इति तत्र ग्रसति बुद्धयादीन् गुणान् गम्यो वा करादीनामिति ग्रामः सन्निवेशविशेषः, इह च 'एकग्रहणे तज्जातीयग्रहणाद्' नगर-खेट-कर्बटादिपरिग्रह इति, जनाकीणे-जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा-कान्तारे वेति, वा विभाषायां न विशेषो-न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः ।।३६।। यतश्चैवम्
तो जत्थ समाहाणं होज्ज मणोवायकायजोगाणं ।
भूओवरोहरहिओ सो देसो झायमाणस्स ।।३७।। तो जत्थ० गाहा ।। यत एतदुक्तं ततस्तस्मात्कारणाद् यत्र ग्रामादौ स्थाने
[२] A स्थिरयोगस्य तु ग्रामे-ऽविशेषा कानने वने ।
तेन यत्र समाधानं, स देशो ध्यायतो मतः ।। २७ ।।
-अध्यात्मसारे, अ. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org