________________
धर्मध्याने देशद्वारम्
निच्चं चिय जुवइ-पसू-नपुंसग-कुसीलवज्जियं जइणो ।
ठाणं वियणं भणियं विसेसओ झाणकालंमि ।।३५।। निच्चं. गाहा ।। नित्यमेव सर्वकालमेव, न केवलं ध्यानकाल इति । किम् ? युवति-पशु-नपुंसक-कुशीलपरिवर्जितं यतेः स्थानं विजनं भणितम् इति । तत्र युवतिशब्देन मनुष्यत्री देवी च परिगृह्यते, पशुशब्देन तु तिर्यक्स्रीति, नपुंसकं प्रतीतम्, कुत्सितं निन्दितं शीलं वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकारादयः, उक्तं च -
“जूइय-रसोल-मेंठा वट्टा उब्भामंगादिणो जे य । एए होंति कुसीला वज्जेयव्वा पयत्तेणं ।।१।।' [
युवतिश्च पशुश्चेत्यादि द्वन्द्वः, युवत्यादिभिः परि-समन्ताद् वर्जितम् रहितमिति विग्रहः, यतेस्तपस्विनः साधोः, 'एकग्रहणे तज्जातीयग्रहणम्' इति साध्याश्च योग्यं यतिनपुंसकस्य च । किम् ? स्थानम् अवकाशलक्षणम्, तदेव विशिष्यते-युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितम् उक्तं तीर्थकरैर्गणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोषसम्भवात् । विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थः ।।३५ ।। * इयं गाथा CL प्रतिमध्ये गाथाक्रमाङ्क - ३६ स्वरूपेणास्ति ।
- सम्पा० । * सोल इति ठाणापालाः केचन पुनर्मद्यपा वदन्ति । - ध्यानशतकवृत्ति - विषमपदपर्याये ।। उद्भमिया इति पारदारिकाः ।
- ध्याशतकवृत्ति - विषमपदपर्याये ।। उपादेयं तु प्रशस्तं धर्म-शुक्लध्यानद्वयम् । तत्र पर्वतगुहा-जीर्णोद्यान-शून्यागारादौ मनुष्याद्यापातविकले अवकाशे मनोविक्षेपनिमित्तशून्ये सत्त्वोपघातरहिते उचिते शिलातलादौ यथासमाधानं विहितपर्यङ्कासन ऊर्ध्वस्थानस्थो वा मन्दमन्दप्राणाऽपानप्रचार:- अतिप्राणनिरोधे चेतसो व्याकुलत्वेन एकाग्रतानुपपत्तेः-निरुद्धलोचनादिकरणप्रचारो हदि ललाटे मस्तके अन्यत्र वा यथापरिचयं मनोवृत्तिं प्रणिधाय मुमुक्षुर्ध्यायेत् प्रशस्तं ध्यानम्।
-सम्मतिवृतौ, का. ३ ।। B स्त्रीपशुक्लीबदुःशील-वर्जितं स्थानमागमे । सदा यतीनामाज्ञप्तं, ध्यानकाले विशेषतः ।। २६।।
-अध्यात्मसारे, अ. १६ ।। _c सिद्धतीर्थादिके क्षेत्रे, शुभस्थाने निरञ्जने । मनःप्रीतिप्रदे देशे, ध्यानसिद्धिर्भवेन्मुनेः ।। ११४ ।।
- ध्यानदीपिकायाम् ।। २]A - "जूइय-रसोलमिंठा" गाहा सुगमा, नवरं सोलाः-स्थानपालाः, उद्भ्रामकाः-पारदारिकाः।
-आवश्यकटिप्पनके ।। B ध्यानशतकार्थलेश-दीपिकाटीकयो: 'रसोल शब्दं गृहीत्वा इयं गाथा विश्लिष्टा (परिशिष्ट-३) [-सम्पा०]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org