SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ६९ धर्मध्याने क्रमध्यातव्यद्वारे aaaraaaarakarataruraruralsararararandaramatararararatadararararurate विसमंमि० गाहा ।। विषमे निम्ने-दुःसञ्चरे समारोहति सम्यक् परिक्लेशेनोवं याति । कः ? दृढं बलवद् द्रव्यं रज्ज्वाधालम्बनं यस्य स तथाविधः, यथा पुरुषः पुमान् कश्चित्, सूत्रादिकृतालम्बनो वाचनादिकृतालम्बन इत्यर्थः, तथा तेनैव प्रकारेण ध्यानवरं धर्मध्यानमित्यर्थः, समारोहतीति गाथार्थः ।।४३।। गतमालम्बनद्वारम्, अधुना क्रमद्वारावसरः, तत्र लाघवार्थं धर्मस्य शुक्लस्य च प्रतिपादयन्नाह झाणप्पडिवत्तिकमो होइ मणोजोगनिग्गहाईओ । भवकाले केवलिणो सेसस्स जहासमाहीए ।।४४।। झाण. गाहा ।। ध्यानं प्राग्निरूपितशब्दार्थम्, तस्य प्रतिपत्तेः क्रम इति समासः, प्रतिपत्तिक्रमः परिपाट्यभिधीयते, स च भवति मनोयोगनिग्रहादिस्तत्र प्रथम मनोयोगनिग्रहः, ततो वाग्योगनिग्रहः, ततः काययोगनिग्रह, इति । किमयं सामान्येन सर्वथैवेत्थम्भूतः क्रमः ? न, किन्तु भवकाले केवलिनोऽत्र अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नोऽन्तर्मुहूर्तप्रमाण एव शैलेश्यवस्थान्तः परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुक्लध्यान एवायं क्रमः । शेषस्यान्यस्य धर्मध्यानप्रतिपत्तुर्योग-कालावाश्रित्य किम् ? यथासमाधिना इति यथैव स्वास्थ्यं भवति तथैव प्रतिपत्तिरिति गाथार्थः ।।४४ ।। गतं क्रमद्वारम्, इदानीं ध्यातव्यमुच्यते, तच्चतुर्भेदमाज्ञादिः । उक्तं च-“आज्ञाऽपायविपाक-संस्थानविचयाय धर्म्यम्" इत्यादि, [तत्वार्थ,९/३७] तत्राऽऽद्यभेदप्रतिपादनायाह *सुनिउणमणाइणिहणं भूयहियं भूयभावणमणग्धं । अमियमजियं महत्थं महाणुभावं महाविसयं ।।४५।। १] A मनोरोधाऽदिको ध्यान-प्रतिपत्तिक्रमो जिने । शेषेषु तु यथायोगं, समाधानं प्रकीर्तितम् ।। ३४ ।। -अध्यात्मसारे, अ. १६ ।। _____B ध्यानानुक्रम उक्तः केवलिनां चित्तयोगरोधादि । भवकाले त्वितरेषां यथासमाधिं च विज्ञेयः ।। ११९ ।। -ध्यानदीपिकायाम् ।। (गाथा-४५) १] A आज्ञापायविपाकसंस्थानविचयाय धर्म्यमिति, विचयः परिचयोऽभ्यास इत्यनर्थान्तरम्, अनन्तरवक्ष्य माणन्यायेनाज्ञाद्यभ्यासाय प्रवर्त्तमानस्य धर्मध्यानं भवतीत्यर्थः । -आवश्यकटिप्पनके ।। ★ आणाविजयमवाए विवागसंठाणओ वि नायव्वा । एए चत्तारि पया झायव्वा धम्मझाणस्स ।। सुनिउणमणाइ x x x || [C प्रतौ, सम्बोधप्रकरणे ध्यानाधिकारे - गाथा ४५] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy