________________
७०
ध्यानशतकम्, गाथा-४६ Patakarakarakakakakakakakakakakakakakakakantasasaramnnatantastne
झाइज्जा निरवज्जं जिणाणआणं जगप्पईवाणं ।
अणिउणजणदुण्णेयं नय-भंग-पमाण-गमगहणं ॥४६।। सुनिउण० गाहा ।। झाइज्जा० गाहा ।। सुष्ठु अतीव, निपुणा कुशला सुनिपुणा ताम्, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याधुपदर्शकत्वात्तथा मत्यादिप्रतिपादकत्वाञ्च। उक्तं च -
"सुयनाणंमि नेउण्णं केवले तयणंतरं । अप्पणो सेसगाणं च जम्हातं परिभावणं ।।१।।" [ ] इत्यादि, इत्थं सुनिपुणां ध्यायेत् । २] A मू. आज्ञा-ऽपाय-विपाक-संस्थानविचयाय धर्ममप्रमत्तसंयतस्य ।। ९-३७ ।। भा० आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च स्मृतिसमन्वाहारो
धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ।। ३७।। किञ्चान्यत्वृ. आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः । आज्ञादीनां विचय: पर्यालोचनम् ।
विचयशब्दः प्रत्येकमभिसम्बध्यते । आज्ञाऽपायविपाकसंस्थानविचयशब्दात् तादh चतुर्थी । धर्मशब्दो व्याख्यातः । अप्रमत्तसंयतस्येति स्वामिनिर्देशः । तत्राज्ञा सर्वज्ञप्रणीत आगमः। तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत्-पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महा● महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनां "इच्छेइयं दुवालसंगं गणिपिडगं न कयाइ णासी" इत्यादि [नन्दी सू० ५८] वचनात् । तत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तेऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थं सावरणज्ञानत्वात्। यथोक्तम्"नहि नामानाभोग-च्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि, ज्ञानावरणप्रकृति कर्म ।। १ ।।" तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथाव्यवस्थितमन्यथा वदन्ति भाषन्ते वाऽनृतकारणाभावात्। अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमित्याज्ञायां स्मृतिसमन्वाहारः। प्रथमं धर्मध्यानमाज्ञाविचयाख्यम्।
-तत्त्वार्थ. सिद्ध. वृत्तौ ।। B अव. अथाऽऽज्ञाध्यानमाह
आज्ञां यत्र पुरस्कृत्य सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते ।। ८।। वृ. आज्ञाऽऽप्तवचनं प्रवचनमिति यावत्, अबाधितां प्रमाणान्तरैः परस्परविरोधेन च, तत्त्वत इति
परमार्थवृत्त्या, अर्थान् पदार्थान् जीवादीन् चिन्तयेत् ।। ८।। अव. आज्ञाया अबाधितत्वं भावयति -
सर्वज्ञवचनं सूक्ष्म, हन्यते यन्त्र हेतुभिः । तदाज्ञारूपमादेयं, न मृषाभाषिणो जिनाः ।। ९ ।। वृ० स्पष्टः ।। ९ ।।
अत्रान्तरश्लोकाः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org