________________
आज्ञाविचयधर्मध्यानम्
७१ arekararakarsakstarastaarakstatererakatarsata r awstakatarsistan
तथा अनाद्यनिधनाम् अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्याद्यपेक्षयेति । उक्तं च -
“द्रव्यार्थादेशादित्येषा द्वादशाङ्गी न कदाचिन्नासीत्" [ ] इत्यादि ।
तथा भूतहिताम् इति इह भूतशब्देन प्राणिन उच्यन्ते, तेषां हितां-पथ्यामिति भावः, हितत्वं पुनस्तदनुपरोधिनीत्वात्तथा हितकारिणीत्वाञ्च । उक्तं च
“सर्वे जीवा न हन्तव्याः" [ ] इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति ।
तथा - भूतभावनाम् इत्यत्र भूतं-सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा-सत्त्वानां भावना भूतभावना, भावना वासनेत्यनर्थान्तरम् । उक्तं च -
"कूरावि सहावेणं राग-विसवसाणुगावि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति ।।१।।" [ श्रूयन्ते च - "बहवश्चिलातीपुत्रादय एवंविधा इति "। आज्ञा स्यादाप्तवचनं, सा द्विधैव व्यवस्थिता । आगमः प्रथमा ताव-द्धेतुवादोऽपरा पुनः ।। १ ।। शब्दादेव पदार्थानां, प्रतिपत्तिकृदागमः । प्रमाणान्तरसंवादा-द्धेतुवादो निगद्यते ।। २ ।। द्वयोरप्यनयोस्तुल्यं, प्रामाण्यमविगानतः । अदुष्टकारणारब्धं, प्रमाणमिति लक्षणात् ।। ३ ।। दोषा राग-द्वेष-मोहाः, संभवन्ति न तेऽर्हति । अदुष्टहेतुसंभूतं, तत् प्रमाणं वचोऽर्हताम् ।। ४ ।। नय-प्रमाणसंसिद्ध, पौर्वापर्याविरोधि च । अप्रतिक्षेप्यमपरै-बलिष्ठैरपि शासनैः ।। ५ ।।। अङ्गोपाङ्ग-प्रकीर्णादि-बहुभेदापगाम्बुधिम् । अनेकातिशयप्राज्य-साम्राज्यश्रीविभूषितम् ।। ६ ।। दुर्लभं दुरभव्यानां, भव्यानां सुलभं भृशम् । गणिपिटकतयो-नित्यं स्तुत्यं नरामरैः ।। ७ ।। एवमाज्ञां समालम्ब्य, स्याद्वादन्याययोगतः । द्रव्य-पर्यायरूपेण, नित्यानित्येषु वस्तुषु ।। ८ ।। स्वरूप-पररूपाभ्यां, सदसद्रूपशालिषु । यः स्थिरः प्रत्ययो ध्यानं, तदाज्ञाविचयाह्वयम् ।। ९ ।। ९ ।।
-योगशास्त्रे, प्र. १० ।। नयभङ्गप्रमाणाऽऽढ्यां, हेतूदाहरणाऽन्विताम् । आज्ञां ध्यायेज्जिनेन्द्राणा-मप्रामाण्याऽकलङ्किताम् ।। ३६ ।।
__ - अध्यात्मसारे, अ. १६ ॥ D स्वसिद्धान्तप्रसिद्धं यद्, वस्तुतत्त्वं विचार्यते । सर्वज्ञाज्ञानुसारेण, तदाज्ञाविचयो मतः ।। १२१ ।। आज्ञा यत्र पुरस्कृत्य, सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदर्थां-स्तदाज्ञाध्यानमुच्यते ।। १२२ ।।
-ध्यानदीपिकायाम् ।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org