________________
७२
ध्यानशतकम्, गाथा-४६ aaraaarakaratarutakaraarakarakararararararararararararakararararararam
तथा अनाम् इति सर्वोत्तमत्वादविद्यमानमूल्यामिति भावः । उक्तं च - "सव्वेऽवि य सिद्धता सदव्वरयणासया सतेलोक्का । जिणवयणस्स भगवओ न मुल्लमित्तं अणग्घेयं ।।१।।" [ ] तथा स्तुतिकारेणाप्युक्तम्"कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते ।।
जिनेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपि लोको लघुतामवैति ।।१।। [ इत्यादि, अथवा ऋणघ्नाम्, इत्यत्र ऋणं-कर्म, तघ्नामिति, उक्तं च
"जं अन्नाणी कम्मं खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ।।१।।" [
] इत्यादि। तथा अमिताम् इत्यपरिमिताम्, उक्तं च - "सव्वनदीणं जा होज्ज वालुया सव्वउदहीण जं तोयं ।
तत्तो वि अणंतगुणो अत्थो "एगस्स सुत्तस्स ।।१।।" [बृ. क. भा. ११७०] अमृतां वा 'मृष्टां पथ्यां च, तथा चोक्तम् -
"जिणवयणमोदगस्स उ रतिं च दिवा य खज्जमाणस्स । तित्तिं बुहो न 'वञ्चति हेउसहस्सोवगूढस्स ।।१।। *नर-नरय-तिरिय-सुरगणसंसारियसव्वदुक्खरोगाणं । जिणवयणमेगमोसहमपवग्गसुहक्खयफलयं ।।२।।" [
सजीवां वाऽमृतामुपपत्तिक्षमत्वेन सार्थिकामिति भावः, न तु यथा"तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः ।। प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ।।१।।" [विशे. स्वो. पृ.१८७] इत्यादिवन्मृतामिति । तथा अजिताम् इति शेषप्रवचनाज्ञाभिरपराजितामित्यर्थः । उक्तं च
"जीवाइवत्थुचिंतणकोसल्लगुणेण-ऽणण्णसरिसेणं । - सेसवयणेहिं अजियं जिणिंदवयणं महाविसयं ।।१।।" [
तथा महार्थाम् इति महान-प्रधानोऽर्थो यस्याः सा तथाविधा ताम, तत्र पूर्वापराविरोधित्वादनुयोगद्वारात्मकत्वान्नयगर्भत्वाच्च प्रधानाम्, महत्स्थां वा अत्र महान्तः★ इयं गाथा सम्बोधप्रकरण-ध्यानाधिकारे मूलगाथारूपेणास्ति ।
_Jain Education International 2010_02
Jain Education International 2010_02
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org