SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आज्ञाविचयधर्मध्यानम् ७३ Pratamrakararararararararakarararakararararararararalatarakararararararate सम्यग्दृष्टयो भव्या एवोच्यन्ते, ततश्च महत्सु स्थिता महत्स्था तां च प्रधानसत्त्वस्थितामित्यर्थः, महास्थां वेत्यत्र महा पूजोच्यते, तस्यां स्थिता महास्था ताम्, तथा चोक्तम् - “सव्वसुरासुर-माणुस-जोइस-वंतरसुपूइयं णाणं । जेणेह गणहराणं "छुहंति चुण्णे सुरिंदावि ।।१।।" [ तथा महानुभावाम् इति तत्र महान्-प्रधानः प्रभूतो वाऽनुभावः-सामर्थ्यादिलक्षणो यस्याः सा तथा ताम्, प्राधान्यं चास्याश्चतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात्, प्रभूतत्वं च प्रभूतकार्यकरणात्, उक्तं च-“पभू णं चोद्दसपुव्वी घडाओ घडसहस्सं करित्तए" [व्या. प्र. ५/४/२४०] इत्यादि, एवमिहलोके, परत्र तु जघन्यतोऽपि वैमानिकोपपातः, उक्तं च - “उववाओ लंतगंमि चोद्दसपुव्वीस्स होइ उ जहण्णो । उक्कोसो सव्वढे सिद्धिगमो वा अकम्मस्स ।।१।।" [ तथा महाविषयाम् इति महद्विषयत्वं तु सकलद्रव्यादिविषयत्वात् । उक्तं च-“दव्वओ सुयनाणी उवउत्ते सव्वदव्वाइं जाणइ" [ ] इत्यादि कृतं विस्तरेणेति गाथार्थः ।।४५।। ध्यायेत् चिन्तयेदिति सर्वपदक्रिया, निरवद्याम् इति अवयं पापमुच्यते निर्गतमवद्यं यस्याः सा तथा ताम्, अनृतादिद्वात्रिंशद्दोषावद्यरहितत्वात्, क्रियाविशेषणं वा। कथं ध्यायेत् ? निरवद्यम् इहलोकाद्याशंसारहितमित्यर्थः । उक्तं च-“नो इहलोगट्ठयाए नो परलोगट्ठयाए नो परपरिभवओ अहं नाणी" [ ] इत्यादिकं निरवद्यं ध्यायेत, जिनानां प्राग्निरूपितशब्दार्थानाम् आज्ञांवचनलक्षणां तथाहि - कुशलकर्मण्याज्ञाप्यन्तेऽनया प्राणिन इत्याज्ञा ताम् ।किंविशिष्टानां जिनानाम् ? केवलालोकेनाशेषसंशयतिमिरनाशनाजगत्प्रदीपानामिति । आजैव विशेष्यते - अनिपुणजनदुज्ञेयाम् न निपुणः अनिपुणः-अकुशल इत्यर्थः, जनःलोकस्तेन दुर्जेयामिति समासः, दुज्ञेयामिति, दुरवगमाम् । तथा नय-भङ्ग-प्रमाण-गमगहनाम् इत्यत्र नयाश्च भङ्गाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गह्वरा ताम्, तत्र नैगमादयो नयास्ते चानेकभेदाः । तथा भङ्गाः क्रमस्थानभेदभिन्नाः, तत्र क्रमभङ्गा यथा एको जीव एक एवाजीव इत्यादि, स्थापना।। । । ऽऽ । ऽ।ऽ। ऽऽ स्थानभङ्गास्तु यथा प्रियधर्मा नामैकः नो दृढधर्मेत्यादि । तथा प्रमीयते ज्ञेयमेभिरिति प्रमाणानि द्रव्यादीनि, यथानुयोगद्वारेषु, गमाः Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy