________________
७४
ध्यानशतकम्, गाथा-४७, ४८ Pareraturerakatarerakatariatererekararararareranandalatarakarsatarasna
चतुर्विंशतिदण्डकादयः, कारणवशतो वा किञ्चिद्विसदृशाः सूत्रमार्गा यथा षड्जीवनिकायादाविति कृतं विस्तरेणेति गाथार्थः ।।४६।।
ननु या एवंविशेषणविशिष्टा सा बोद्धमपि न शक्यते मन्दधीभिः, आस्तां तावद्ध्यातुम्, ततश्च यदि कथञ्चिन्नावबुध्यते तत्र का वार्तेत्यत आह -
तत्थ य मइदोब्बलेणं तब्विहायरियविरहओ वावि । णेयगहणत्तणेण य णाणावरणोदएणं च ।।४७।। हेऊदाहरणासंभवे य सइ सुटु जं न बुझेज्जा ।
सवण्णुमयमवितहं तहावि तं चिंतए मइमं ।।४।। तत्थ य० गाहा ।। तत्र तस्यामाज्ञायाम्, चशब्दः प्रस्तुतप्रकरणानुकर्षणार्थः । किम् ? जडत्या चलत्वेन वा मतिदौर्बल्येन-बुद्धेः सम्यगर्थानवधारणेनेत्यर्थः १। तथा तद्विधाचार्यविरहतश्चाऽपि तत्र तद्विधः सम्यगविपरीततत्त्वप्रतिपादनकुशलः, आचर्यतेऽसावित्याचार्यः सूत्रार्थावगमार्थं मुमुक्षुभिरासेव्यत इत्यर्थः, तद्विधश्चासावाचार्यश्च तद्विधाचार्यः, तद्विरहतस्तदभावतश्च, चशब्दः अबोधे द्वितीयकारणसमुच्चयार्थः, अपिशब्दः क्वचिदुभयवस्तूपपत्तिसम्भावनार्थः २। तथा ज्ञेयगहनत्वेन च तत्र ज्ञायत इति ज्ञेयं धर्मास्तिकायादि, तद्गहनत्वेन तद्गह्वरत्वेन, चशब्दोऽबोध एव तृतीयकारणसमुच्चयार्थः ३। तथा ज्ञानावरणोदयेन च तत्र ज्ञानावरणं प्रसिद्धम्, तदुदयेन तत्काले तद्विपाकेन, चशब्दश्चतुर्थकारणसमुच्चयार्थः ४ । . अत्राह-ननु ज्ञानावरणोदयादेव मतिदौर्बल्यं तथा तद्विधाचार्यविरहो
ज्ञेयगहनप्रतिपत्तिश्च, ततश्च तदभिधाने न युक्तममीषामभिधानमिति ? न, 'तस्य कार्यस्यैव सक्षेप-विस्तरत उपाधिभेदेनाभिधानादिति गाथार्थः ।।४७।। तथा
हेऊदाहरणा० गाहा ।। तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः * चतुर्विशतिरिति अनेन ‘नेरईया असुराई' इत्यादि गाथा सूचिता । -ध्यानशतकवृत्ति-विषमपदपर्याये ।। * उभयवस्तूपपत्तिरिति मतिदौर्बल्य-तथाविधाचार्याभावः । -ध्यानशतकवृत्ति-विषमपदपर्याये ।। * तदभिधाने इति ज्ञानावरणस्याभिधाने ।
षमपदपर्याये ।।
e
-ध्यान
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org