________________
७५
आज्ञाया अबोधे किं करणीयम् ? karatatarararararararanataranatakarakarakararamarekararararerakarakarakarate कारको व्यञ्जकश्च, उदाहरणं चरित-कल्पितभेदम्, हेतुश्चोदाहरणं च हेतूदाहरणे तयोरसम्भवः, कञ्चन पदार्थ प्रति हेतूदाहरणासम्भवात्, तस्मिंश्च, चशब्दः पञ्चमषष्ठकारणसमुच्चयार्थः, ५-६ सति विद्यमाने । किम् ? यत् वस्तुजातं न सुष्ठु बुद्ध्येत नातीवावगच्छेत् सर्वज्ञमतमवितथं तथापि तच्चिन्तयेन्मतिमानिति । तत्र सर्वज्ञास्तीर्थकरास्तेषां मतं सर्वज्ञमतं मतं - वचनम् । किम् ? वितथम् अनृतम्, न वितथम् अवितथं सत्यमित्यर्थः, तथापि तदबोधकारणे सत्यनवगच्छन्नपि तन्मतं वस्तु वा चिन्तयेत् पर्यालोचयेन्मतिमान् बुद्धिमानिति गाथार्थः ।।४८ ।। किमित्येतदेवमित्यत आह -
अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा ।
जियराग-दोस-मोहा य णण्णहावादिणो तेणं ।।४९।। अणुवकय० गाहा ।। अनुपकृते परैरवर्तिते सति, परानुग्रहपरायणा धर्मोपदेशा-दिना परानुग्रहोधुक्ता इति समासः, यद् यस्मात् कारणात्, के ? जिनाः प्राग्निरूपितशब्दार्थाः, त एव "विशिष्यन्ते-जगत्प्रवराश्चराचरश्रेष्ठा इत्यर्थः, एवंविधा अपि कदाचिद् रागादिभावाद्वितथवादिनो भवन्त्यत आह - जिता निरस्ता राग-द्वेष-मोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, अज्ञानलक्षणश्च मोहः, चशब्द एतद्भावगुणसमुञ्चयार्थः, नान्यथावादिनस्तेन इति तेन कारणेन ते नान्यथावादिन इति । उक्तं च
"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ।।" [ ] इति गाथार्थः ।।४९।। उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते- तत्र
राग-दोस-कसाया-ऽऽसवादि-किरियासु वट्टमाणाणं ।
इह-परलोयावाओ झाइज्जा वज्जपरिवज्जी ॥५०॥ राग० गाहा ॥ राग-द्वेष-कषाया-ऽऽश्रवादि-क्रियासु वर्तमानानामिहपरलोकापायान् ध्यायेत् ।
[२] A मू.
आज्ञा-ऽपाय-विपाक x x x संयतस्य ।। ९-३७ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org