________________
ध्यानशतकम्, गाथा-५० Parasarararararakaratmaratrakaareranaarasranamaratmararatarnataka
यथा रागादिक्रिया ऐहिकामुष्मिकविरोधिनी, उक्तं च - “रागः सम्पद्यमानोऽपि दुःखदो दुष्टगोचरः।
महाव्याध्यभिभूताना-मपथ्यानाभिलाषवत् ।।१।।" [ "द्वेषः सम्पद्यमानोऽपि तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु दावानल इव द्रुमम् ।।२।। " [
] तथा ""दृष्ट्यादिभेदभिन्नस्य रागस्यामुष्मिकं फलम् । दीर्घः संसार एवोक्तः सर्वज्ञैः सर्वदर्शिभिः ।।३।।" [ ] इत्यादि । तथा
] तथा
*
दृष्ट्यादि इति दर्शनादि ।
-ध्यानशतकवृत्ति-विषमपदपर्याये ।। वृ. xxx अपायविचयं द्वितीयं धर्मध्यानमुच्यते । अपाया-विपदः शारीर-मानसानि दुःखानीति पर्यायास्तेषां
विचयः- अन्वेषणमिहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृतिविभागार्पितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितृप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिणतिभिर्निवृत्ताः । प्रातिपदिकात् तादयं चतुर्थीबहुवचनम् । हिंसायै हिंसा) हिंसाप्रयोजनं रौद्रं भवति ध्यानम् । एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यं रौद्रमित्युक्तं निर्वचनं प्राक् । अविरतश्च देशविरतश्च कृतद्वन्द्वौं स्वामिनौ रौद्रध्यानस्य निर्दिष्टौ षष्ठीद्विवचनेन । अविरत-देशविरतयोस्तु रौद्रध्यानमेतावस्य ध्यातारावित्यर्थः । एतदेव भाष्यकारो विवृणोति-हिंसार्थमित्यादिना । स्पष्टमेव तादर्थ्य दर्शयति। "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा " [अ० ७, सू० ८] तञ्च सत्त्वव्यापादनोद्वन्धपरितापनताडनकरचरण-श्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दम् । तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् । ये च जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । प्रबलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्भूतघाताभिसन्धानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारः । तत्रैवं दृढप्रणिधानमनृतानन्दमिति । स्तेयार्थं स्तेयप्रयोजनमधुनोच्यते । तीव्रसक्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचाराहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः । द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः । विषयसंरक्षणार्थं चेति चतुर्थो विकल्पः । चशब्दः समुच्चये । विषयपरिपालनप्रयोजनं च भवति रौद्रं ध्यानम् । विषमिव यान्ति विसर्पन्ति परिभुज्यमानाः । पृषोदरादित्वात् संस्कारः । अथवा ‘षिञ् बन्धने' [पा० धा० १४७८] भोक्तारं विशेषेण विविधं वा सिन्वन्ति-बध्नन्तीति विषयाःशब्दादयः । तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि । विषीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते विषयाः। यथोक्तम् [प्रशमरतौ श्लौ० १०७] "यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org