________________
७७
आपायविचयधर्मध्यानम् tarakararakarakaratatakaraarararararararakstartstakararadarsraritarashataks
“दोसानलसंसत्तो इहलोए चेव दुक्खिओ जीवो। परलोगमि य पावो पावइ निरयानलं तत्तो ।।१।।" [ ] इत्यादि । तथा कषायाः क्रोधादयः, तदपायः पुनः - "कोहो पीती पणासेति माणो विणयणासणो ।
माया मित्ताणि णासेइ लोभो सव्वविणासणो ।।" [द.वै.८/३८] "कोहो य माणो य अणिग्गहीया माया य लोहो य पवड्ढमाणा ।
चत्तारि एए कसिणो कसाया सिंचति मूलाई पुणब्भवस्स ।।१।। " [द.वै. ८/४०] किम्पाकफलादनवद्, भवन्ति पश्चादतिदुरन्ताः ।।" । विषयाणां च संरक्षणमुक्तं परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः । इत्थं च विषयसंरक्षणाहितक्रौर्यस्य म्लेच्छमलिम्लुचाग्निक्षेत्रमृद्दायादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षतस्तीवेण लोभकषायेणानुरक्तचेतसस्तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दं रौद्रं भवति ध्यानम् । तञ्चैतदविरतस्वामिकम् । तौ च पूर्वोक्तलक्षणौ । तयोरेव च भवत्येतत् प्रमत्तसंयतादीनामिति । रौद्रध्यायिनस्तीव्रसंक्लिष्टाः कापोतनीलकृष्णलेश्यास्तिस्रस्तदनुगमाञ्च नरकगतिमूलमेतत्। पर्याप्तमादाय कर्मजालं दुरन्तं नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते । केचिदिहापि कृतवैरानुबन्धाः परस्परमाक्रोशवधबन्धाद्यपायभाजो दृश्यन्ते क्लिश्यन्ते इत्यतः प्रत्यवायप्रायेऽस्मिन् संसारेऽत्यन्तोद्वेगाय स्मृतिसमन्वाहारतोऽपायविचयं धर्मध्यानमाविर्भवति । xxx ।।
-तत्वार्थ. सिद्ध. वृत्तौ ।। B अव. अथापायविचयमाह
राग-द्वेष-कषायाद्यै-र्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपाय-विचयध्यानमिष्यते ।। १० ।। वृ. राग-द्वेषजनितानामपायानां विचयो विचिन्तनं यत्र तदपायविचयम् ।। १० ।। अव. तस्य फलमाह
ऐहिका-ऽऽमुष्मिकापाय-परिहारपरायणः । ततः प्रतिनिवर्तेत, समन्तात् पापकर्मणः ।।११।। वृ० स्पष्टः ।। ११ ।।
अत्रान्तरश्लोकाः - अस्पृष्टजिनमार्गाणा-मविज्ञातपरात्मनाम् । अपरामृष्टायतीना-मपायाः स्युः सहस्रशः ।। १ ।। मया मोहान्धतमसा, विवशीकृतचेतसा । किं किं नाकारि कलुषं, कस्कोऽपायोऽप्यवापि न ।। २।। यद्यद् दुःखं नारकेषु, तिर्यक्षु मनुजेषु च । मया प्रापि प्रमादोऽयं, ममैव हि विचेतसः ।। ३ ।। प्राप्यापि परमां बोधिं, मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मयैवायं, शिरसि ज्वालितोऽनलः ।। ४ ।। स्वाधीने मुक्तिमार्गेऽपि, कुमार्गपरिमार्गणैः । अहो आत्मंस्त्वयैवैष, स्वात्माऽपायेषु पातितः ।। ५ ।। यथा प्राप्तेऽपि सौराज्ये, भिक्षां भ्राम्यति बालिशः । आत्मायत्ते तथा मोक्षे, भवाय भ्रान्तवानसि ।। ६ ।। इत्यात्मनः परेषां च, ध्यात्वाऽपायपरंपराम् । अपायविचयं ध्यान-मधिकुर्वीत योगवित् ।। ७ ।। ११ ।।
-योगशास्त्रे, प्र. १० ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org