________________
७८
ध्यानशतकम्, गाथा-५१
तथाऽऽश्रवाः कर्मबन्धहेतवो मिथ्यात्वादयः, तदपायः पुनः - "मिच्छत्तमोहियमई जीवो इहलोग एव दुक्खाई । निरओवमाइं पावो पावइ पसमाइगुणहीणो ।।१।।" [
] तथा - "अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि "सर्वदोषेभ्यः । अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ।।१।।" [
] तथा - "जीवा पाविंति "इहं पाणवहादविरईए पावाए । नियसुयघायणमाई दोसे जणगरहिए पावा ।।१।। [ परलोगंमिवि एवं आसवकिरियाहि अज्जिए कम्मे । जीवाण चिरमवाया निरयाइगई भमंताणं ।।२।।" [
] इत्यादि । आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभावप्रदेशबन्धभेदग्राहक इत्यन्ये, क्रियासु कायिक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः –
"किरियासु वट्टमाणा काइगमाईसु दुक्खिया जीवा । इह चेव य परलोए संसारपवड्ढया भणिया ।।१।। " [
ततश्चैवं रागादिक्रियासु वर्तमानानामपायान् ध्यायेत् । किंविशिष्टः सन्निति ? आह-वर्ण्यपरिवर्जी तत्र वर्जनीयं-वर्ण्यम्-अकृत्यं परिगृह्यते, तत्परिवर्जी-अप्रमत्त इति गाथार्थः ।।५।। उक्तः खलु द्वितीयो ध्यातव्यभेदः, अधुना तृतीय उच्यते, तत्र -
पयइ-ठिइ-पएसा ऽणुभावभिन्नं सुहासुहविहत्तं ।
जोगाणुभावजणियं कम्मविवागं विचिंतेज्जा ।।५१।। C रागद्वेषकषायादि-पीडितानां जनुष्यताम् । एहिकामुष्मिकाँस्ताँस्तान् नानाऽपायान् विचिन्तयेत् ।। ३७ ।।
-अध्यात्मसारे, अ. १६ ।। D अपायविचयं ज्ञेयं, ध्यानं तझ विचक्षणैः । अपायः कर्मणां यत्र, सोऽपायः प्रोच्यते बुधैः ।। १२३ ।। रागद्वेषकषायाश्रवक्रिया-वर्तमानजीवानाम् । इह-परलोकापायानपायभीरुः स्मरेत् साधुः ।। १२४ ।।
- ध्यानदीपिकायाम् ॥ * परिशिष्ट - १० १] A मू. आज्ञा-ऽपाय-विपाक-संस्थानविचयाय xxx ।।९-३७।।
वृ. xxx तृतीयं धर्मध्यानं विपाकविचयाख्यमुच्यते-विविधो विशिष्टो वा पाको विपाकः अनुभावः । अनुभावो रसानुभवः कर्मणां नरक-तिर्यङ्-मनुष्या-ऽमरभवेषु तस्य विचयः अनुचिन्तनं मार्गणं तदर्पितचेताः । तत्रैव स्मृति
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org