________________
विपाकविचयधर्मध्यानम् tataaraantaratatatastaramataararararararararararararamatatatatatatara
पयइ० गाहा ।। प्रकृति-स्थिति-प्रदेशा-ऽनुभावभिन्नं शुभाशुभविभक्तम् इति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः । स्थितिस्तासामेवावस्थानं जघन्यादिभेदभिन्नम् । प्रदेशशब्देन जीवप्रदेशकर्मपुद्गलसम्बन्धोऽभिधीयते । अनुभावशब्देन तु विपाकः । एते च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति ।
ततश्चैतदुक्तं भवति-प्रकृत्यादिभेदभिन्नं शुभाशुभविभक्तं योगानुभावजनितं 'मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथाक्षरार्थः ।।५१।।
भावार्थः पुनर्वृद्धविवरणादवसेयः । तच्चेदम्
इह पयइभिन्न सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ पयईत्ति कम्मणो भेया अंसा "णाणावरणिज्जाइणो अट्ठ, तेहिं भिन्नं विहत्तं सुहं पुण्णं सायाइयं असुहं पावं तेहिं विहत्तं विभिन्नविपाकं जहा कम्मपयडीए तहा विसेसेण चिंतिज्जा ।
किंच-ठिइभिन्नं च सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा-ठिइत्ति तासिं चेव अट्ठण्हं पयडीणं जहण्णमज्झिमुक्कोसा कालावत्था जहा कम्मपयडीए ।
समन्वाहृत्य वर्तमानो विपाकविचयाध्यायी भवति । ज्ञानावरादिकमष्टप्रकारं कर्मप्रकृति-स्थित्य-ऽनुभावप्रदेशभेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम्। तद्यथा-ज्ञानावरणाद् दुर्मेधस्तवम्। दर्शनावरणाञ्चक्षुरादिवैकल्यं निद्राद्युद्भवश्च । असद्वेद्याद् दुःखम्, सद्वेद्यात् सुखानुभवः । मोहनीयाद् विपरीतग्राहिता चारित्रविनिवृत्तिश्च । आयुषोऽनेकभवप्रादुर्भावः। नाम्नोऽशुभप्रशस्तदेहादिनिर्वृत्तिः । गोत्रादुञ्चनीचकुलोपपत्तिः । अन्तरायादलाभ इति। इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धर्म्यं भवति ध्यानमिति ।। xxx
-तत्वार्थ. सिद्ध. वृत्तौ. ।। B. अव. अथ विपाकविचयमाह -
प्रतिक्षणसमुद्भूतो, यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स, विपाकविचयो मतः ।। १२ ।। वृ. xxx स्पष्टः ।। १२ ।। अव० एतदेव भावयति -
या संपदाऽर्हतो या च, विपदा नारकात्मनः । एकातपत्रता तत्र, पुण्यापुण्यस्य कर्मणः ।। १३ ।। व. xxx आ अर्हतः, आ नारकात्मनः' इति चाभिव्याप्तौ पञ्चमी । शेषं स्पष्टम्।
अत्रान्तरश्लोकाःविपाकः फलमानातः, कर्मणां स शुभाशुभः । द्रव्य-क्षेत्रादिसामग्र्या, चित्ररूपोऽनुभूयते ।। १ ।। शुभस्तत्राङ्गना-माल्य-खाद्यादिद्रव्यभोगतः । अशुभस्त्वहि-शस्रा-ऽग्नि-विषादिभ्योऽनुभूयते ।। २ ।। क्षेत्रे सौध-विमानोप-वनादौ वसनाच्छुभः । श्मशान-जाङ्गला-ऽरण्य-प्रभृतावशुभः पुनः ।। ३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org