________________
८०
ध्यानशतकम्, गाथा-५१ Parararaaraararakaratarnatantaaraaaraantaraataaratacaranatakam
'किंच-पएसभिन्नं शुभाशुभं यावत्-'कृत्वा पूर्वविधानं पदयोस्तावेव पूर्ववद् वयौँ । वर्ग-घनौ कुर्यातां तृतीयराशेः स्थितं प्राग्वत्' ।।१।। 'कृत्वा विधानम्' इति '२५६, अस्य राशेः पूर्वपदस्य घनादि कृत्वा तस्यैव वर्गादि ततः द्वितीयपदस्येदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्ग-घनौ क्रियेते, एवमनेन क्रमेणायं राशिः १६७७७२१६ चिंतेज्जा, पएसोत्ति जीव-पएसाणं कम्मपएसेहिं सुहुमेहिं एगखेत्तावगाढेहिं पुट्ठो-गाढ-अणंतर
काले त्वशीतलानुष्णे, वसन्तादौ रतेः शुभः । उष्णे शीते ग्रीष्मे हेम-न्तादौ भ्रमणतोऽशुभः ।। ४ ।। मनःप्रसाद-सन्तोषा-दिभावेषु शुभो भवेत् । क्रोधा-ऽहङ्कार-रौद्रत्वा-दिभावेष्वशुभः पुनः ।। ५ ।। सुदेवत्व-भोगभूमि-मनुष्यादिभवे शुभः । कुमर्त्य-तिर्यङ्-नरका-दिभवेष्वशुभः पुनः ।। ६ ।। अपि चउदय-क्षय-क्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं भावं च भवं च संप्राप्य ।। ७ ।। इति द्रव्यादिसामग्री-योगात् कर्माणि देहिनाम् । स्वं स्वं फलं प्रयच्छन्ति, तानि त्वष्टैव तद्यथा ।। ८ ।। जन्तोः सर्वज्ञरूपस्य, ज्ञानमावियते सदा । येन चक्षुः पटेनेव, ज्ञानावरणकर्म तत् ।। ९ ।। मति-श्रुता-ऽवधि-मनः-पर्यायाः केवलं तथा । यदाव्रियन्ते ज्ञानानी-त्येतज्ज्ञानावृतेः फलम् ।। १० ।। पञ्च निद्रा दर्शनानां, चतुष्कस्यावृतिश्च या । दर्शनावरणीयस्य, विपाकः कर्मणः स तु ।। ११ ।। यथा दिदृक्षुः स्वाम्यत्र, प्रतीहारनिरोधतः । न पश्यति स्वमप्येवं, दर्शनावरणोदयात् ।। १२ ।। मधुलिप्तासिधाराग्रा-स्वादाभं वेद्यकर्म यत् । सुख-दुःखानुभवन-स्वभावं परिकीर्तितम् ।। १३ ।। सुरापानसमं प्राज्ञा मोहनीयं प्रचक्षते । यदनेन विमूढात्मा, कृत्याकृत्येषु मुह्यति ।। १४ ।। तत्रापि दृष्टिमोहाख्यं, मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु, विरतिप्रतिषेधनम् ।। १५ ।। नृ-तिर्यङ्-नारका-ऽमर्त्य-भेदादायुश्चतुर्विधम् । स्वस्वजन्मनि जन्तूनां धारकं गुप्तिसन्निभम् ।। १६ ।। गति-जात्यादिवैचित्र्य-कारि चित्रकरोपमम् । नामकर्म विपाकोऽस्य, शरीरेषु शरीरिणाम् ।। १७ ।। उचैनीचैर्भवेद गोत्रं कोच्चैनीचगोत्रकत । क्षीरभाण्ड-सराभाण्डभेदकारिकलालवत ।। १८ ।। दानादिलब्धयो येन, न फलन्ति विबाधिताः । तदन्तरायं कर्म स्याद्, भाण्डागारिकसन्निभम् ।। १९ ।। इति मूलप्रकृतीनां विपाकास्तान् विचिन्वतः। विपाकविचयं नाम, धर्म्य ध्यानं प्रवर्तते ।। २० ।। ।। १३ ।।
___ -योगशास्त्रे, प्र.१० ।। C ध्यायेत्कर्मविपाकं च, तं तं योगाऽनुभावजम् । प्रकृत्यादिचतुर्भेदं शुभाऽशुभविभागतः ।। ३८ ।।
-अध्यात्मसारे, अ. १६ ।। D चतुर्धा कर्मबन्धेन, शुभेनाप्यशुभेन वा । विपाकः कर्मणां जीव-र्भुज्यमानो विचिन्त्यते ।। १२५ ।।
प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स, विपाकविचयो मतः ।। १२६ ।। या संपदाऽर्हतो या च, विपदा नारकात्मनः। एकातपत्रता तत्र, पुण्यापुण्यस्य कर्मणः।। १२७ ।।
-ध्यानदीपिकायाम् ।। RA किंच-पएसभित्रं शुभाशुभं यावत्-'कृत्वा पूर्वविधानमित्यादि पूर्वमहर्षिवचनत्वाद्गम्भी
रमिदमस्मादृशामगम्यम्, आम्नायानुसारतस्तु गमनिकामात्रं किञ्चिदुच्यते-इह प्रदेशभिन्नः- शुभाशुभरूपः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org