________________
विपाकविचयधर्मध्यानम्
८१
araza
कर्म्मविपाको भावनीयः, प्रदेशाश्च जीवस्य कर्म्माणवोऽभिधीयन्ते, तैश्च कियद्भिरेकैको जीवप्रदेश आवेष्टितः परिवेष्टित इति चिन्तनीयम्, अयं च प्रदेशबन्धः कर्म्मप्रकृत्यादिषु विस्तरेणाभिहितोऽत एव शुभाशुभं यावदित्यत्र शास्त्रकृद् यावच्छब्दं चकार स चात्र संक्षेपतः कथ्यते - असंख्यातप्रदेशस्यापि जीवस्यासत्कल्पनया किल षट्पञ्चाशदधिके द्वे शते प्रदेशानां स्थाप्येते २५६, अस्य चैतावन्मानस्य राशेर्घनीकृतस्य यदागतं फलं तावत्प्रमाणैः कर्म्मप्रदेशः किलैते जीवप्रदेशा आवेष्टिताः, बहुत्वप्रदर्शनमात्रं चेदम्, एकैकस्यापि जीवप्रदेशस्यानन्तानन्तकर्म्मवर्गणावेष्टितत्वात्, तत्रास्य कल्पितजीवप्रदेशराशेर्घनीकरणार्थं करणकारिकामाह - ' कृत्वा पूर्वविधान मित्यादि अस्याश्चार्थ:
'स्थाप्योऽन्तघनोऽन्त्यकृतिः स्थानाधिक्यं त्रिपूर्व्वगुणिता च ।
कृतिरन्त्यगुणिता त्रिगुणा च घनस्तथाऽऽद्यस्य ।। १ ।।
एतत्कारिकानुसारतो गणितविधिज्ञेन विज्ञेयः, तत्र स्थाप्योऽन्त्यघन इति अन्त्योऽत्र द्विकस्तस्य घनोऽष्टौ ८ स्थाप्यन्ते, अन्त्यकृतिरिति अन्त्यस्य द्विकस्य कृतिः - वर्गश्चत्वारः, त्रिपूर्व्वगुणिता चेति त्रिभिः पूर्वेण च पञ्चकेन गुण्यते जाता षष्टिः, स्थानाधिक्यमिति सा षष्टिः पूर्वस्थापिताष्टकस्याधस्तात्स्थानाधिक्येन स्थाप्यते तद्यथा ८०/६ आद्यकृतिरिति द्विकापेक्षया आद्यः पञ्चकस्तस्य कृतिः पञ्चविंशतिः, अन्त्यगुणितेति एषा कृतिरन्त्येन द्विकेन गुणिता जाता पञ्चाशत् त्रिगुणा चेति सा त्रिगुणिता जातं सार्द्धशतम्, तच्च स्थानाधिक्येन स्थाप्यते - ८५०/६/१ घनस्तथाद्यस्येति आद्यः पञ्चकस्तस्य घनः पञ्चविंशत्यधिकं शतं तदपि स्थानाधिक्येन स्थाप्यते तद्यथा - ८५२५ / ६१ एतावती च प्रक्रिया पूर्वगणितकारसंज्ञया पूर्व्वविधानमित्युच्यते । अत एतावता कृत्वा पूर्वविधानं पदयोरित्येतद्व्याख्यातमवसेयम्, स्थाप्यो ऽन्तघनो इत्यादि कारिका पुनरादित आवर्त्यते, तत्र च, निर्युक्त राशिरन्त्यमितिवचनादिदानीं पञ्चविंशतेरन्त्यसंज्ञा तस्याश्च घनः किल मीलित एवास्तेऽतः स्थाप्योऽन्त्यघन इत्युल्लङ्घ्यान्त्यकृतिः क्रियते, तत्र जातानि पञ्चविंशत्यधिकानि षट् शतानि, त्रिगुणिते जातानि पञ्चसप्तत्यधिकानि अष्टादशशतानि पञ्चविंशतेः पूर्व्वः षट्कस्तेन गुणिते जातानि सार्द्धशतद्वयाधिकानि एकादशसहस्राणि स्थानाधिक्येन स्थाप्यन्ते यथा - ८५२५०/६१२५० /१०/१ अनेन चानन्तरविधिना तावैव पूर्व्ववद्वर्ग्यावित्येतद् व्याख्यातम्, तौ द्विकपञ्चकलक्षणौ पदविशेषौ पूर्व्वपूर्व्ववद् वर्ग्यावित्यस्यानुष्ठितत्वादुपलक्षणं चैतत् त्रिगुणषड्गुणत्वयोरिति, आद्यस्य षट्कस्य कृतिरन्त्यभूतया पञ्चविंशत्या गुणिता त्रिगुणिता च जातानि शतानि सप्तविंशतिः पूर्व्वराशौ स्थानाधिक्येन स्थाप्यते, तद्यथा - ८५२५००/६१२५०/११२७/१ आद्यस्य षट्कस्य घने जातं शतद्वयं षोडशाधिकं स्थानाधिक्येन पूर्व्वराशौ क्षिप्यते तद्यथा- ८५२५२१६ / ६१२५०/११२७/१ अनेन च वर्गघनौ कुर्वतां तृतीयराशेः षट्कलक्षणस्येत्येतद् व्याख्यातम्, ननु यथा षट्कस्य वग्र्गो विहितस्तथा पञ्चविंशत्या त्रिभिश्च गुणितस्तत्कथं लभ्यते ? इत्याह- ततः प्राग्वदिति यदनुक्तं तत् पूर्व्ववत् सर्व्वं विधेयमिति भावः, अस्मिँश्च राशौ मीलिते आगतं १६७७७२१६ । एतामेव कारिकां वृत्तिकृद् व्याचष्टे - कृत्वा विधानमित्यादि, पूर्वपदस्य घनादि इत्यादि पूर्व्वपदस्य द्विकलक्षणस्य घनो विधेयः, आदिशब्दादवन्यादौ स्थापनं च कृत्वा तस्यैव द्विकलक्षणस्य पदस्य वर्गः, आदिशब्दात् त्रिगुणकरणादिपरिग्रहः ततो द्वितीयस्य पदस्य पञ्चकलक्षणस्येदमेव यद् द्विकस्य कृतं तद्विपरीतं क्रियते, एतदुक्तं भवति - द्विकस्य प्रथमं घनादि कृतम्, ततो वर्गादि पञ्चकस्य तु प्रथमं वर्गादि ततो घनादि क्रियते, एतच्च सर्व्वं कृतमेव भावनीयम्, तदेतावता कृत्वा पूर्व्वविधानमिति व्याख्यातम्, साम्प्रतं तावेव पूर्व्ववद्वग्र्ग्यावेतद् व्याचष्टे - एतावेव द्विकपञ्चकौ वयेते इति वर्गघनौ कुर्यातामित्यादि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org