________________
८२
ध्यानशतकम्, गाथा-५२
अणु-बायर-उद्धाइभेऎहिं बद्धाणं वित्थरओ य कम्मपयडीए भणियाणं कम्मविवागं विचिंतेजा ।
किंच - अणुभावभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ अणुभावोत्ति तासिं चेवऽट्ठण्हं पयडीणं पुट्ठ-बद्ध-निकाइयाणं उदयाउ अणुभवणं, तं च कम्मविवागं जोगाणुभावजणियं विचिंतेज्जा, तत्थ जोगा मण-वयण-काया, अणुभावो-जीवगुण एव, स च मिथ्यादर्शनाविरति-प्रमाद-कषायाः, तेहिं अणुभावेण य जणियमुप्पाइयं जीवस्स कम्मं जं तस्स विवागं उदयं विचिंतिज्जइ । उक्तस्तृतीयो ध्यातव्यभेदः, साम्प्रतं चतुर्थ उच्यते, तत्र
जिणदेसियाई लक्खण-संठाणाऽऽसण-विहाण-माणाइं ।
उप्पायट्ठिइभंगाइपज्जवा जे य दव्वाणं ।।५२।। जिण० गाहा ।। जिनाः प्राग्निरूपितशब्दार्थाः तीर्थकराः, तैर्देशितानि कथितानि
व्याख्यानयति, ततः षट्कलक्षणस्य तृतीयपदस्येत्यादि, एतच्च सर्च केषुचित्पुस्तकेषु न दृश्यते तेषु च
दुरवगमत्वेनोत्सारितमिति लक्ष्यते बहुष्वादशेषु दर्शनादित्यलं प्रसङ्गेनेति । -आवश्यकटिप्पनके ।। [२] A मू. आज्ञा-ऽपाय-विपाक-संस्थानविचयाय x x x ।। ९-३७ ।। वृ. xxx संस्थानविचयं नाम चतुर्थं धर्मध्यानमुच्यते-संस्थानम्-आकारविशेषो लोकस्य द्रव्याणां
च । लोकस्य तावत् तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं स्थालमिव च तिर्यग्लोकमूर्ध्वमधोमल्लकसमुद्गम्। तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः । असङ्ख्येया द्वीप-समुद्रा वलयाकृतयो धर्मा-ऽधर्मा-ऽऽकाश-पुद्गल-जीवास्तिकायात्मका अनादिनिधनसन्निवेशभाजो व्योम-प्रतिष्ठा: क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि च । तथाऽऽत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद्, अरूपं कर्तारमुपभोक्तारं च स्वकृतकर्मणः शरीराकारम्, मुक्तौ विभागहीनाकारम् । ऊर्ध्वलोको द्वादशकल्पा असकलसकलनिशाकरमण्डलाकृतयो नव ग्रैवेयकाणि पञ्च महाविमानानि मुक्ताधिवासश्च । अधोलोकोऽपि भवनवासिदेवा नारकाधिवसतिः। धर्माऽधर्मावपि लोकाकारौ गतिस्थितिहेतू, आकाशमवगाहलक्षणम्, पुद्गलद्रव्यं शरीरादिकार्यम्, इत्थं संस्थानस्वाभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते । पदार्थस्वरूपपरिज्ञानं तत्त्वावबोधस्तत्वावबोधाञ्च क्रियानुष्ठानं तदनुष्ठानान्मोक्षावाप्तिरिति । xxx
- तत्वार्थ. सिद्ध. वृत्तौ ।। B अव. अथ संस्थानविचयमाह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org