________________
८३
संस्थानविचयधर्मध्यानम् atarnatandardarataaranatakaratmatalatakaratmatalatakaratarnalataka जिनदेशितानि, कान्यत आह-लक्षण-संस्थानाऽऽसन-विधान-मानानि, किम् ? विचिन्तयेदिति पर्यन्ते वक्ष्यति षष्ठ्यां गाथायामिति । तत्र लक्षणादीनि विचिन्तयेत्, अत्रापि गाथान्ते द्रव्याणामित्युक्तं तत्प्रतिपदमायोजनीयमिति। ___ तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि। तथा संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षणं परिमण्डलाद्यजीवानाम्, यथोक्तम् – “परिमंडले य वट्टे तंसे चउरंस आयते चेव" [
] । जीवशरीराणां च समचतुरस्त्रादि । यथोक्तम् -
वृ०
अनाद्यन्तस्य लोकस्य, स्थित्युत्पत्तिव्ययात्मनः। आकृतिं चिन्तयेद्यत्र, संस्थानविचयः स तु ।।१४।। वृ. लोकशब्देन लोकस्तद्गतानि च क्षित्यादीनि द्रव्याणि परिगृह्यन्ते । शेषं स्पष्टम् ।। १४ ।। अव. लोकध्यानस्य फलमाह
नानाद्रव्यगतानन्त-पर्यायपरिवर्तने । सदा सक्तं मनो नैव, रागाद्याकुलतां व्रजेत् ।। १५ ।। स्पष्टः । अत्रान्तरश्लोकाःसंस्थानविचयो लोक-भावनायां प्रपञ्चितः । तन्नेह वर्ण्यते भूयः, पुनरुक्तत्वभीरुभिः ।। १ ।। अथ लोकभावनायाः, संस्थानविचयस्य च । को नाम भेदो येनोभो, विभिनौ परिकीर्तितौ ।। २ ।। उक्तमेतद्यथा चिन्ता-मात्रकं लोकभावना । स्थिरा तु लोकादिमतिः, संस्थानध्यानमुच्यते ।। ३ ।। १५ ।।
-योगशास्त्रे, प्र. १० ।। C उत्पादस्थितिभङ्गादि-पर्यायैर्लक्षणैः पृथक् ।
भेदैर्नामादिभिर्लोक-संस्थानं चिन्तयेद्धृतम् ।। ३९ ।। -अध्यात्मसारे, अ. १६ ।।
D अन्नतानन्तमाकाशं, सर्वतः सुप्रतिष्ठितम् । तन्मध्ये यः स्थितो लोको, नित्यो दृष्टो जिनौत्तमैः ।। १२८ ।। स्थित्युत्पत्तिव्ययोपेतैः, पदार्थश्चेतनेतरैः । सम्पूर्णोऽनादिसंसिद्धः, स्थितं यत्र जगत्त्रयम् ।। १२९ ।।
___ -ध्यानदीपिकायाम् ।। २] A संस्थानं मुख्यवृत्त्या पुद्गलरचनाकारलक्षणमित्यादि, एतदुक्तं भवति-मुख्यवृत्त्या तावत्परिमण्ड
लसमचतुरस्रायेव रूपिद्रव्यसम्बन्धि संस्थानमुच्यते, धर्माधर्माकाशानां त्वमूर्त्तत्वेन मुख्यवृत्त्या न सम्भवत्येव संस्थानम्, किन्तु लोकेन सर्वतोऽवच्छिन्नं सदुपचारतस्तु प्रतिष्ठकाद्याकारं लोकक्षेत्रमुच्यते धर्माधर्मयोरपि तद्वृत्तित्वात् तनिबन्धन एवोपचारतः संस्थानव्यवहारः अत एवाह
-आवश्यकटिप्पनके ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org