________________
८४
ध्यानशतकम्, गाथा-५२ karakatalatarakaratatatastaraaraataantaraastarakaradataarararataste
"समचउरंसे नग्गोहमंडले साइ वामणे खुज्जे । हुंडेवि य संठाणे जीवाणं छ मुणेयव्वा ।।१।। " [ तथा धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति , उक्तं च" हेट्ठा मज्झे उवरि छव्वी-झल्लरि-मुइंगसंठाणे । लोगो अद्धागारो अद्धाखेत्तागई णेओ ।।१।। " [
तथाऽऽसनानि आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणि वा । तथा विधानानि धर्मास्तिकायादीनामेव भेदानित्यर्थः, यथा - "धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसे" [अनु.चू.पृ.१९९] इत्यादि । तथा मानानिप्रमाणानि धर्मास्तिकायादीनामेवात्मीयात्मीयानि। तथोत्पाद-स्थिति-भङ्गादिपर्याया ये च द्रव्याणां धर्मास्तिकायादीनां तान् विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः “उत्पाद-व्ययध्रौव्ययुक्तं सत्" [तत्वार्थ, ५/२९] इति वचनात्, युक्तिः पुनरत्र -
“घट-मौलिसुवर्णार्थी नाशोत्पाद-स्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ।।१।। पयोव्रतो न दद्धयत्ति न पयोऽत्ति दधिव्रतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ।।२।। [आप्तमी.का.६०]
ततश्च धर्मास्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते, तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति, धर्मास्तिकायो द्रव्यात्मना तु नित्य इति । उक्तं च -
अद्धाखेत्त इति मनुष्यक्षेत्रम् ।
-ध्यानशतकवृत्ति-विषयमपदपर्याये ।। धर्माधर्मयोरपि लोकक्षेत्रेत्यादि, ननु लोकक्षेत्रस्यैव किं संस्थानमित्याह- -आवश्यकटिप्पनके ।। 'हिट्ठा मझे' गाहा व्याख्या-अधस्तान्मध्ये उपरि च यथासंख्यं छव्विझल्लरिमृदङ्गसंस्थानो लोकोऽवसेयः । तत्र छव्वी-नाम विस्तीर्णा पुष्पचङ्गेरी तदाकारोऽधोलोकः, तिर्यग्लोको झल्लाकारः, ऊर्ध्वलोकस्तु मृदङ्गाकार इति, नन्ववगतमुक्तक्रमेण धर्माधर्माकाशजीवपुद्गलानां संस्थानम्, अथ कालस्य किं संस्थानमित्याह-अद्धागारो अद्धाखित्तागिती नेतो त्ति अद्धायाः- कालस्याकारोऽद्धाक्षेत्रं-मनुष्यक्षेत्रं तदाकृतिज्ञेयः,सूर्यक्रियाभिव्यङ्ग्यो हि कालः किल मनुजक्षेत्र एव वर्त्तते, अतो य एव तस्याकारः स एव कालस्याप्युपचारतो विज्ञेय इति गाथार्थः ।।
-आवश्यकटिप्पनके ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org