SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ संस्थानविचयधर्मध्याने लोकस्वरूपम् ८५ सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः। सत्योश्चित्यपचित्यो-राकृतिजातिव्यवस्थानात्।।१।।"[तत्वार्थभाष्य, ५/२९] आदिशब्दादगुरुलघ्वादिपर्यायपरिग्रहः, चशब्दः समुच्चयार्थ इति गाथार्थः ।।५२ ।। किञ्च - पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोयभेयाइं ।।५३।। पंचत्थिकाय० गाहा ।। पञ्चास्तिकायमयं लोकमनाद्यनिधनं जिनाख्यातम् इति, क्रिया पूर्ववत् । तत्रास्तयः प्रदेशास्तेषां काया अस्तिकायाः, पञ्च च ते अस्तिकायश्चेति विग्रहः, एते च धर्मास्तिकायादयो गत्याधुपग्रहकरा ज्ञेया इति । उक्तं च - "जीवानां पुद्गलानां च, मत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ।।१।। जीवानां पुद्गलानां च, स्थित्युपग्रहकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिः समा ।।२।। जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो यद्वदाकाशमवकाशदम् ।।३।। ज्ञानात्मा सर्वभावज्ञो, भोक्ता कर्ता च कर्मणाम् । नानासंसारि-मुक्ताख्यो, जीवः प्रोक्तो जिनागमे ।।४।। स्पर्श-रस-गन्ध-वर्ण-शब्द-मूर्तस्वभावकाः । सङ्घात-भेदनिष्पन्नाः, पुद्गला जिनदेशिताः ।।५।। "[ तन्मयं तदात्मकम्, कम् ? लोक्यत इति लोकस्तम्, कालतः किम्भूतमित्यत आह - अनाद्यनिधनम् अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह - जिनाख्यातं तीर्थंकरप्रणीतम् । आह - जिनदेशितान् इत्यस्माज्जिनप्रणीताधिकारोऽनुवर्तत एव, ततश्च जिनाख्यात Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy