SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ८६ Peaks ध्यानशतकम्, गाथा-५४ matatatatamnaanana मित्यतिरिच्यते ? न, अस्याऽऽदरख्यापनार्थत्वात्, आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः । तथा चोक्तम् - "अनुवादादरवीप्साभृशार्थ-विनियोगहेत्वसूयासु। ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ।।१।।"[द.वै.चूर्णि.अ.१०] तथा नामादिभेदविहितं भेदतो नामादिभेदावस्थापितमित्यर्थः । उक्तं च - *"नामं ठवणा दविए खित्ते काले भवे य भावे य । पज्जवलोगो य तहा अट्ठविहो लोगनिक्खेवो ।।१।।" [आव.नि.१०५७] भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याह - त्रिविधं त्रिप्रकारम् अधोलोकभेदादि इति प्राकृतशैल्याऽधोलोकादिभेदम्, आदिशब्दात्तिर्यगूज़लोकपरिग्रह इति गाथार्थः ।।५३ ।।। किञ्च, तस्मिन्नेव क्षेत्रलोक इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह खिइ-वलय-दीव-सागर-नरय-विमाण-भवणाइसंठाणं । वोमाइपइट्ठाणं निययं लोगट्टिइविहाणं ।।५४।। खिइ० गाहा ।। क्षिति-वलय-द्वीप-सागर-निरय-विमान-भवनादिसंस्थानं तत्र क्षितयः खलु धर्माद्या ईषत्प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि घनोदधिघनवात-तनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपा जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असंख्येयाः, सागरा लवणसागरादयः स्वयम्भूरमणसमुद्रपर्यन्ता असंख्येया एव, निरया: सीमन्तकाद्या अप्रतिष्ठानावसानाः संख्येयाः, यत उक्तम् - "तीसा य पन्नवीसा पनर्स दसेव सयसहस्साई । तिन्नेगं पंचूणं पंच य निरया जहाकमसो ।।१।।" [ विमानानि ज्योतिष्कादिसम्बन्धीन्यनुत्तरविमानान्तान्यसंख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात्, भवनानि भवनवास्यालयलक्षणानि असुरादिदशनिकायसम्बन्धीनि संख्येयानि, उक्तं च - * परिशिष्ट - १० Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy