________________
८७
संस्थानविचयधर्मध्याने जीवस्वरूपम् aaraaaaaaaaaaaaaaaaaaaaaaaa
“सत्तेव य कोडीओ हवंति बावत्तरि सयसहस्सा । "भवणसमासो एसो भवणवईणं वियाणेज्जा ।।१।। " [ आदिशब्दादसंख्येयव्यन्तरनगरपरिग्रहः, उक्तं च - “हेट्ठोवरिजोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं भोमा नयरा असंखेज्जा ।।१।।" [
ततश्च क्षितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम् आकारविशेषलक्षणं विचिन्तयेदिति, तथा व्योमादिप्रतिष्ठानम् इत्यत्र प्रतिष्ठितिः प्रतिष्ठानम्, भावे ल्युट, व्योम आकाशम्, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिष्ठानमस्येति व्योमादिप्रतिष्ठानम् लोकस्थितिविधानमिति योगः, विधिः विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः लोकस्थितिः, स्थितिः व्यवस्था मर्यादा इत्यनर्थान्तरम्, तद्विधानम्, किम्भूतम् ? नियतम् नित्यं-शाश्वतम्, क्रिया पूर्ववदिति गाथार्थः ।।५४ ।। किञ्च -
उवओगलक्खणमणाइनिहणमत्थंतरं सरीराओ ।
जीवमरूविं कारिं भोइं च सयस्स कम्मस्स ।।५५।। उवउ० गाहा ।। उपयुज्यतेऽनेनेत्युपयोगः साकारानाकारादिः, उक्तं च-"स द्विविधोऽष्ट-चतुर्भेदः" [तत्त्वार्थ, २/९], स एव लक्षणं यस्य स उपयोगलक्षणस्तम्, जीवमिति वक्ष्यति, तथा अनाद्यनिधनम् अनाद्यपर्यवसितम्, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः, तथा अर्थान्तरम् पृथग्भूतम्, कुतः ? शरीरात्, जातावेकवचनम् शरीरेभ्यः
औदारिकादिभ्य इति, कमित्यत आह-जीवति जीविष्यति जीवितवान् वा जीव इति तम्, किम्भूतमित्यत आह - अरूपिणम् अमूर्तमित्यर्थः, तथा कर्तारम् निर्वर्तकम्, कर्मण इति गम्यते, तथा भोक्तारम् उपभोक्तारम्, कस्य ? स्वकस्य आत्मीयस्य कर्मणो ज्ञानावरणीयादेरिति गाथार्थः ।।५५ ।। २ चिन्तयेत्तत्र कर्तारं, भोक्तारं निजकर्मणाम् । अरूपमव्ययं जीव-मुपयोगस्वलक्षणम् ।। ४०।।
-अध्यात्मसारे, अ. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org