________________
८८
ध्यानशतकम्, गाथा-५६, ५७
तस्स य सकम्मजणियं जम्माइजलं कसायपायालं । वसणसयसावयमणं मोहावत्तं महाभीमं ।।५६।। अण्णाण-मारुएरियसंजोग-विजोगवीइसंताणं ।
संसारसागरमणोरपारमसुहं विचिंतेजा ।।५७।। तस्य य. गाहा ।। तस्य च जीवस्य स्वकर्मजनितम् आत्मीयकर्मनिवर्तितम्, कम् ? संसारसागरमिति वक्ष्यति तम्, किम्भूतमित्यत आह - जन्मादिजलम् जन्म प्रतीतम्, आदिशब्दाज्जरामरणपरिग्रहः, एतान्येवातिबहुत्वाज्जलमिव जलं यस्मिन् स तथाविधस्तम्, तथा कषायपातालम् कषायाः पूर्वोक्तास्त एवागाधभवजननसाम्येन पातालमिव पातालं यस्मिन् स तथाविधस्तम्, तथा व्यसनशतश्वापदवन्तम् व्यसनानि-दुःखानि द्यूतादीनि वा, तच्छतान्येव पीडाहेतुत्वात् श्वापदानि, तान्यस्य विद्यन्त इति तद्वन्तम् 'मणं' ति देशीशब्दो मत्वर्थीयः, उक्तं च - "मतुयत्थंमि मुणिज्जह आलं इल्लं मणं च मणुयं चे"[ ति, तथा मोहावर्तम् मोहः-मोहनीयं कर्म, तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तम्, तथा महाभीमम् अतिभयानकमिति गाथार्थः ।।५६।। किञ्च -
__ अण्णाण. गाहा ।। अज्ञानम् ज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतो वायुस्तेनेरितः प्रेरितः, कः ? संयोग-वियोग-वीचिसन्तानो यस्मिन् स तथाविधस्तम्, तत्र संयोगः केनचित् सह सम्बन्धः, वियोगस्तेनैव विप्रयोगः, एतावेव सततप्रवृत्तत्वाद् वीचय ऊर्मयस्तत्प्रवाहः सन्तान इति भावना, संसरणं संसारः स सागर इव संसारसागरस्तम्, किम्भूतम् ? अनोरपारम् अनाद्यपर्यवसितम्, अशुभम् अशोभनं विचिन्तयेत्, तस्य गुणरहितस्य जीवस्येति गाथार्थः ।।५७ ।।
२]
तत्कर्मजनितं जन्म-जरामरणवारिणा । पूर्ण मोहमहावर्त्त-कामौर्वानलभीषणम् ।। ४१ ।। आशामहाऽनिलापूर्ण-कषायकलशोच्छलत् । असद्विकल्पकल्लोल-चक्रं दधतमुद्धतम् ।। ४२ ।। हदि स्रोतसिकावेला-सम्पातदुरतिक्रमम् । प्रार्थनावीचिसंतानं, दुष्पूरविषयोदरम् ।। ४३ ।। अज्ञानदुर्दिनं व्यापद्-विद्युत्पातोद्भवद्भयम् । कदाग्रहकुवातेन, हृदयोत्कम्पकारिणम् ।। ४४ ।। विविधव्याधिसम्बन्ध-मत्स्यकच्छपसंकुलम् । चिन्तयेच भवाऽम्भोधिं चलद्दोषाऽदिदुर्गमम् ।। ४५ ।।
-अध्यात्मसारे, अ. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org