________________
संस्थानविचयधर्मध्याने चारित्रमहापोतस्वरूपम् . Paradatarnatantaraararaatamataramatarararararararararararararamadarate
तस्स य संतरणसहं सम्मइंसणसुबंधणमणहं । णाणमयकण्णधारं चारित्तमयं महापोयं ।।५८।। संवरकयनिच्छिदं तवपवणाइद्धजवणतरवेगं । वेरग्गमग्गपडियं विसोत्तियावीइनिक्खोभं ।।५९।। आरोढं मुणि-वणिया महग्घसीलंग-रयणपडिपुन्नं ।
जह तं निव्वाणपुरं सिग्घमविग्घेण पाविति ॥६०।। तस्स य० गाहा ।। तस्य च संसारसागरस्य संतरणसहम् सन्तरणसमर्थं पोतमिति वक्ष्यति, किंविशिष्टम् ? सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधस्तम्, अनघम् अपापम्, ज्ञानं प्रतीतं तन्मयस्तदात्मकः कर्णधारो निर्यामकविशेषो यस्य यस्मिन् वा स तथाविधस्तं चारित्रं प्रतीतं तदात्मकम्, महापोतम् इति 'महाबोधित्थम्, क्रिया पूर्ववदिति गाथार्थः ।।५८ ।। २] A तस्य सन्तरणोपायं, सम्यक्त्वदृढबन्धनम् । बहुशीलाऽङ्गफलकं, ज्ञाननिर्यामकाऽन्वितम् ।। ४६ ।।
संवरास्ताश्रवच्छिद्रं, गुप्तिगुप्तं समन्ततः । आचारमण्डपोद्दीप्ता-पवादोत्सर्गभूद्वयम् ॥ ४७ ।। असङ्ख्यैर्दुर्धरैर्योधै-र्दुष्प्रधृष्यं सदाशयैः । सद्योगकूपस्तम्भाग्र-न्यस्ताऽध्यात्मसितांशुकम् ।। ४८ ।। तपोऽनुकूलपवनोद्-भूतसंवेगवेगतः । वैराग्यमार्गपतितम्, चारित्रवहनं श्रिताः ।। ४९ ।। सद्भावनाख्यमञ्जूषा-न्यस्तसञ्चित्तरत्नतः । यथाऽविघ्नेन गच्छन्ति, निर्वाणनगरं बुधा ।। ५० ।। यथा च मोहपल्लीशे, लब्धव्यतिकरे सति । संसारनाटकोच्छेदा-शङ्कापङ्काऽऽविले मुहुः ।। ५१ ।। सजीकृतस्वीयभटे, नावं दुर्बुद्धिनामिकाम् । श्रिते दुर्नीतिनौवृन्दा-रूढशेषभटाऽन्विते ।। ५२ ।। आगच्छत्यथ धर्मेश - भटौघे रणमण्डपम् । तत्वचिन्ताऽऽदि-नाराच-सज्जीभूते समाश्रिते ।। ५३ ।। मिथो लग्ने रणाऽऽवेशे, सम्यग् दर्शनमन्त्रिणा । मिथ्यात्वमन्त्री विषमां, प्राप्यते चरमां दशाम् ।। ५४ ।। लीलयैव निरूद्ध्यन्ते, कषायचरटा अपि । प्रशमादिमहायोधैः, शीलेन स्मरतस्करः ।। ५५ ।। हास्यादिषट्कलुण्टाक-वृन्दं वैराग्यसेनया । निद्रादयश्च ताड्यन्ते, श्रुतोद्योगादिभिर्भटैः ।। ५६ ।। भटाभ्यां धर्मशुक्लाभ्या-मार्त्तरौद्राऽभिधौ भटौ । निग्रहेणेन्द्रियाणां च जीयते द्रागसंयमः ।। ५७ ।। क्षयोपशमतश्चक्षु-दर्शनाऽऽवरणादयः । नश्यन्त्यसातसैन्यं च, पुण्योदयपराक्रमात् ।। ५८ ।। सह द्वेषगजेन्द्रेण, रागकेसरिणा तथा । सुतेन मोहभूपोऽपि, धर्मभूपेन हन्यते ।। ५९ ।। ततः प्राप्तमहानन्दा, धर्मभूपप्रसादतः । यथा कृतार्था जायन्ते, साधवो व्यवहारिणः ।। ६० ।। विचिन्तयेत्तथा सर्वम्, धर्मध्याननिविष्टधीः । ईदृगन्यदपि न्यस्त-मर्थजातं यदागमे ।। ६१ ।।
-अध्यात्मसारे, अ. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org