SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ९० ध्यानशतकम्, गाथा-६१, ६२ Pararararararararararararararararararararalarakaranatakararakararakatarerake संवर० गाहा ।। इहाऽऽश्रवनिरोधः संवरस्तेन कृतनिश्छिद्रं स्थगितरन्ध्रमित्यर्थः, अनशनादिलक्षणं तपस्तदेवेष्टपुरं प्रति प्रेरकत्वात् पवन इव तपःपवनस्तेनाऽऽविद्धस्य प्रेरितस्य "जवनतरः शीघ्रतरो वेगो रयो यस्य स तथाविधस्तम्, तथा 'विरागस्य भावो वैराग्यम् तदेवेष्टपुरप्रापकत्वान्मार्ग इव वैराग्यमार्गस्तस्मिन् पतितो गतस्तम्, तथा विस्रोतसिका अपध्यानानि ता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचय इव विस्रोतसिकावीचयस्ताभिर्निक्षोभ्यः निष्पकम्पस्तमिति गाथार्थः ।।५९।। आरोढुं मुणि० गाहा ।। एवम्भूतं पोतं किम् ? आरोढुम् इत्यारुह्य, के ? मुनिवणिजो मन्यन्ते जगतस्त्रिकालावस्थामिति मुनयः, त एवातिनिपुणमाय-व्ययपूर्वकं प्रवृत्तेर्वणिज इव मुनिवणिजः, पोत एव विशेष्यते-महा_णि महार्हाणि शीलाङ्गानिपृथिवीकायस मारम्भपरित्यागादीनि वक्ष्यमाणलक्षणानि, तान्येवैकान्तिकात्यन्तिकसुखहेतुत्वाद्रत्नानि महाघशीलाङ्गरत्नानि, तैः प्रतिपूर्णो भृतस्तम्, येन प्रकारेण यथा तत् प्रकान्तं निर्वाणपुरं सिद्धिपत्तनम्, परिनिर्वाणपुरं वेति पाठान्तरं शीघ्रम् आशु स्वल्पेन कालेनेत्यर्थः, अविघ्नेन अन्तरायमन्तरेण प्राप्नुवन्ति आसादयन्ति, तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः ।।६०।। तत्थ य तिरयणविणिओगमइयमेगंतियं निराबाहं । साभावियं निरुवमं जह सोक्खं अक्खयमुर्वेति ।।६।। तत्थ य० गाहा ।। तत्र च परिनिर्वाणपुरे त्रिरत्नविनियोगात्मकम् इति त्रीणि रत्नानि ज्ञानादीनि, विनियोगश्चैषां क्रियाकरणम्, ततः प्रसूतेस्तदात्मकमुच्यते, तथा ऐकान्तिकम् इत्येकान्तभावि, निराबाधम् इत्याबाधारहितम्, स्वाभाविकम् न कृत्रिमम्, निरुपमम् उपमातीतमिति, उक्तं च - “नवि अस्थि माणुसाणं तं सोक्खम्"[धर्मो विव.] इत्यादि यथा येन प्रकारेण सौख्यम् प्रतीतम्, अक्षयम् अपर्यवसानम् उपयान्ति सामीप्येन प्राप्नुवन्ति, क्रिया पूर्ववदिति गाथार्थः ।।६१।। किं बहुणा ? सव्वं चिय जीवाइपयत्थवित्थरोवेयं । सव्वनयसमूहमयं झाइज्जा समयसब्भावं ।।२।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy