________________
६०
ध्यानशतकम्, गाथा-३३
a
उक्ता दर्शनभावना, साम्प्रतं चारित्रभावनास्वरूप-गुणप्रदर्शनायेदमाह
नंबकम्माणायाणं पोराणविणिज्जरं सुभायाणं ।
चारित्तभावणाए झाणमयत्तेण य समेइ ।।३३।। नव० गाहा ।। नवकर्मणामनादानम् इति नवानि उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि ज्ञानावरणीयादीनि, तेषामनादानम्- अग्रहणं चारित्रभावनया, समेतिगच्छतीति योगः, तथा पुराणविनिर्जराम् चिरन्तनक्षपणामित्यर्थः, तथा शुभादानम् इति शुभं पुण्यं - सात-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायुर्नामगोत्रात्मकम्, तस्याऽऽदानम्-ग्रहणम् । किम् ? चारित्रभावनया हेतुभूतया ध्यानम्, चशब्दानवकर्मानादानादि च, अयत्नेन अक्लेशेन समेति गच्छति प्राप्नोतीत्यर्थः ।
तत्र चारित्रभावनयेति कोऽर्थः ? 'चर गति-भक्षणयोः' इत्यस्य 'अति-लू-धू-सू-खनसह-चर इत्रः' [पा.३-२-१८४] इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपम्, तस्य भावश्चारित्रम् ।
एतदुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना-अभ्यासश्चारित्रभावनेति गाथार्थः ।।३३।। C संवेगः प्रशमः स्थैर्य-मसंमूढत्वमस्मयः । आस्तिक्यमनुकम्पेति, ज्ञेया सम्यक्त्वभावना ।। ९ ।।
-ध्यानदीपिकायाम ।। RIA अव. चारित्रभावनामधिकृत्याहनिर्युः साहुमहिंसाधम्मो सञ्चमदत्तविरई य बंभं च ।
साहु परिग्गहविरई साहु तवो बारसंगो य ।। ३३८ ।। वृ. साधु शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवार्हते प्रवचने साधु__ शोभनं नान्यत्रेति द्वितीयव्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव
नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति ।। x x x ||
___ -आचाराङ्गसूत्रे, चूलिका-३ ।। B मू. उपशान्तक्षीणकषाययोश्च ।। ९-३८।। वृ. xxx तथा चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुभानि वा सञ्चिनुते । ततश्चायत्नेनैव धर्मध्यायी भवति । ..।।
-तत्वार्थ, सिद्ध. वृत्तौ ।। C ईर्यादिविषया यत्ना, मनोवाक्कायगुप्तयः । परीषहसहिष्णुत्व-मिति चारित्र्यभावना ।। १० ॥
- ध्यानदीपिकायाम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org