________________
दर्शनभावना
ય
प्रश्रम-स्थैर्यादय एव ँ गुणाः प्रश्रमस्थैर्यादिगुणास्तेषां गणः- समूहस्तेनोपेतो-युक्तो यः स तथाविधः, अथवा प्रशमादिना स्थैर्यादिना च गुणगणेनोपेतः २, तत्र प्रशमादिगुणगणः प्रशमसंवेग-निर्वेदा-ऽनुकम्पा -ऽऽस्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तु दर्शित एव, य इत्थम्भूतः असौ भवति असम्मूढमनास्तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः, दर्शनशुद्धया उक्तलक्षणया हेतुभूतया, क्व ? ध्यान इति गाथार्थः ।। ३२ ।।
वृ०
वृ०
अव०
निर्यु० गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं ।
इय एगंतमुवगया गुणपइया इमे अत्था ।। ३३३ ।। गुणमापं इसिनामकित्तणं सुरनरिंदपूया य ।
पोराणचेइयाणि य इय एसा दंसणे होइ ।। ३३४ ।।
प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा - गणितविषये बीजगणितादौ परं पारमुपगतोऽयम्, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयम्, तथा दृष्टिपातोक्ता नानाविधा युक्तीः द्रव्यसंयोगान् हेतूवा वेत्ति तथा सम्यग् अविपरीता दृष्टिः दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रवचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्म्यमाचार्यादेर्वर्णयतस्तथा पूर्वमहर्षीणां च नामोत्कीर्त्तनं कुर्वतस्तेषामेव च सुरनरेन्द्र पूजादिकं कथयतस्तथा चिरन्तनचैत्यानि पूजयत इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति । ।
- आचाराङ्गसूत्रे, चूलिका - ३ ||
B मू०
वृ०
-
५९
Para
अट्ठावयमुज्जिते गयग्गपयए य धम्मचक्के य 1
पासरहावत्तनगं चमरुप्पायं च वंदामि ।। ३३२ ।।
कृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुज्जयन्तगिरौ गजाग्रपदे दशार्णकूटवर्त्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्त्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु च स्थानेषु यथासम्भवमभिगमनवन्दनपूजनोत्कीर्त्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति । । किञ्च
उपशान्तक्षीणकषाययोश्च ।। ९ - ३८ ।
x x x तथा विगतशङ्कादिशल्यः प्रशम-संवेग-निर्वेदाऽनुकम्पा ऽऽस्तिक्य- स्थैर्य प्रभावना - यतना सेवनभक्तियुक्तः असम्मूढचेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धर्मं ध्यायति । x x x ।।
- तत्वार्थ सिद्ध. वृत्तौ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org