________________
५८
ध्यानशतकम्, गाथा-३२
संकाइदोसरहिओ पसम-थेजाइगुणगणोवेओ ।
होइ असंमूढमणो दंसणसुद्धीए झाणंमि ।।३२।। संकाइ० गाहा ।। शङ्कादिदोषरहित इति शङ्कनं शङ्का, आदिशब्दात् काङ्क्षादिपरिग्रहः, उक्तं च-"शङ्का-काङ्क्षा-विचिकित्सा-ऽन्यदृष्टिप्रशंसा-परपाषण्डसंस्तवाः सम्यग्दृष्टेरतिचाराः" [तत्वार्थ, ७/१८] इति, तेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय एव सम्यक्त्वाख्यप्रथमगुणातिचारत्वाद् दोषाः शङ्कादिदोषास्तै रहितःत्यक्तः।
शङ्कादिदोषरहितत्वादेव किम् ? प्रश्रम-स्थैर्यादिगुणगणोपेतः तत्र प्रकर्षेण श्रमः प्रश्रमः खेदः, स च स्वपरसमयतत्त्वाधिगमरूपः, स्थैर्यं तु जिनशासने निष्पकम्पता, आदिशब्दात्प्रभावनादिपरिग्रहः, उक्तं च -
"स-परसमयकोसल्लं थिरया जिणसासणे पभावणया ।
आययणसेव भत्ती दंसणदीवा गुणा पंच ।।१।।" [ * परिशिष्ट - १B 4 श्रीतत्वार्थसूत्रमुद्रितप्रतो x x x प्रशंसा-संस्तवाः xxx इति पाठो दृश्यते । २] A अव. - प्रशस्तभावनामाहनिर्यु. दंसणनाणचरिते तववेरग्गे य होइ उ पसत्था ।
जा य जहा ता य तहा लक्खण वच्छ सलक्खणओ ।। ३२९ ।। दर्शनज्ञानचारित्रतपोवैराग्यादिषु या यथा च प्रशस्तभावना भवति तां प्रत्येकं लक्षणतो
वक्ष्य इति ।। अव० दर्शनभावनार्थमाहनियुः तित्थगराण भगवओ पवयणपावयणिअइसइड्डीणं ।
अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा ।। ३३०।। तीर्थकृतां भगवतां प्रवचनस्य द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम् आचार्यादीनां युगप्रधानानाम्, तथाऽतिशयिनामृद्धिमतां केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया
दर्शनशुद्धिर्भवतीति ।। अव. किञ्च - निर्यु. जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे ।
दियलोअभवणमंदरनंदीसरभोमनगरेसुं ।। ३३१ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org