SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ वैराग्यभावना ६१ उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूप-गुणप्रदर्शनार्थमाह - सुविदियजगरसभावो निस्संगो निभओ निरासो य । वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ ।।३४।। सुविदिय० गाहा ।। सुष्ठु अतीव, विदितो ज्ञातो जगतश्चराचरस्य, यथोक्तम्“जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्" [ ] । स्वो भावः स्वभावःजन्म मरणाय नियतं बन्धुवुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः ।।१।। इत्यादिलक्षणो येन स तथाविधः, कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह-निःसङ्गो विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह - निर्भय इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्पर१. A नियुः वेरग्गमप्पमाओ एग्गत्ता(ग्ग)भावणाय परिसंगं । इय चरणमुवगयाओ भणिया इत्तो तवो वुच्छं ।। ३३९।। वृ० x x x तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावनाएक्को मे सासओ अप्पा, णाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ।। १ ।।" इत्यादिका भावनाः (इति प्रकृष्टमृषित्वाङ्ग) चरणमुपगताश्चरणाश्रिताः, इत ऊर्ध्वं तपोभावनां वक्ष्ये अभिधास्य इति ।। निर्यु. किह मे हविज्जवंझो दिवसो ? किं वा पहू तवं काउं ? को इह दव्वे जोगो खित्ते काले समयभावे ।। ३४० ।। वृ. कथं केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं प्रभुः शक्तः ? तथा कतरत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयम्, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं “शक्तितस्त्यागतपसी" [तत्त्वार्थे अ० ६ सू० २३ दर्शन०] इति वचनादिति ।। किञ्चनिर्यु. उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे ।। वेरग्गेऽणिचाई होइ चरित्ते इहं पगयं ।। ३४१ ।। वृ० तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002559
Book TitleDhyanashatakam Part 1
Original Sutra AuthorJinbhadragani Kshamashraman, Haribhadrasuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages302
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy