Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 41
________________ ३२ श्रीमहावीरविज्ञप्ति नानि च तानि हरन्तीति अनिष्टहृतः । एवंविधा भावा:स्वभावा येषां तानीष्टप्रदाऽनिष्टहृद्भावानि । इत्यमुना प्रकारेण दृष्ट्वापि बाह्यलोचनेन पुस्तकन्यस्ताऽक्षरेष्ववलोक्यापि, वा शब्दात्तथानुष्ठीयमानान्यप्यपेतदृग् । अपेता-गता, हग्-भावलोचनं यस्य सोऽपेतदृग् पूर्णिमीयकः, ज्ञानाचारहितोपचारं । ज्ञानाचारे हितश्चासावुपचारश्च तमेवंविधमेतत्प्रत्यक्षसिद्धं शुद्धपरम्परागततीर्थे श्राद्धश्राद्धीभिः क्रियारूपेणाऽनुष्ठीयमानमुपधानतपः, आदिशब्दात्साधूनां योगानुष्ठानपरिग्रहः । तदीप्सिताऽसाधनं सुखाद्यसाधनं, विद्वान् - जानानः प्रभुपुरस्तवपुरस्तान्निग्रहं-यथापराधदण्डं किं नो व्रजेत् प्राप्नुयात् ? । अपि तु प्राप्नुयादेवेत्यन्वयमुखेनैवाक्षरार्थः । भावार्थस्त्वयं- जनप्रवचने ज्ञानाऽऽराधनं तावत्कालाद्युपचारैरेव भवति । उक्तं च “काले विणए बहुमाणे उवहाणे तह य अनिह्नवणे । वंजण अत्थतदुभये अट्ठविहो नाणमायारो " ॥ १ ॥ ति । तत्रोपधानं ज्ञानमुद्दिश्य तपोविशेषस्तत्करणं च ज्ञानाऽऽराधनहेतुर्ज्ञानमूलकत्वाच्च दर्शनचारित्रयोरपीति । तच्च साधू। नामावश्यकयोगोद्वहनं, श्राद्धार्ना तूपधानोद्वहनं । तच्च पूर्णिमीयस्य नाभीष्टं । उपलक्षणात्तत्प्रतिपादकश्रीमहानिशीथादिशास्त्रमपि । तस्मात् हे प्रभो ! तव पुरो निग्रहास्पदं भवेदेव । ननु भो ! अस्यामवसर्पिण्यां प्रथमतया चन्द्रप्रभस्यैवश्रावकप्रतिष्ठाव्यवस्थापकत्वेन प्रथम तस्तदुद्भावनेनैव विज्ञप्ति -

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168