Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 124
________________ मध्यमोत्सूत्रिनिदर्शनम् ११५ पर्युषणादिवाचक सांवत्सरिकादिशब्दवत् । शब्दानां हि सङ्केतमनुसृत्य चार्थाभिधायकत्वं न पुनर्व्युत्पत्त्यर्थमात्रमनुसृत्यापि, ..गो-महिष-मयूरादिशब्दानामपि मनुष्याद्यर्थाभिधायकत्वापत्तेः । गच्छतीति गौः, मह्यां शेते इति महिषो, मद्यां रौतीति मयूर इत्यादि व्युत्पत्त्यर्थस्य मनुष्यादावपि विद्यमानत्वात् । स च सङ्केतो · द्विधा स्वसमयसिद्धः सर्वसमय सिद्धश्च । तत्राऽऽद्यो, भाद्रपदसितचतुर्थी सन्ध्याद्वयाऽऽवश्यक क्रियाविशेषादौ सांवत्सरिक-प्रति.क्रमणादिशब्दानां । द्वितीयस्तु दिनकरादौ सूर्यादिशब्दानामिति । एतेन 'पञ्चदश्य यज्ञकालौ पक्षान्तौ पर्वणी अपी'ति नाममालोक्तमादाय पूर्णिमामेव पाक्षिकतया स्वीकुर्वाणोऽपि निरस्तः । यतस्तत्र पर्वशब्दो वंशाङ्गुलीनां ग्रन्थिष्विव सन्धिरूपकालविशेषे सङ्केतितो, न पुनरभिमतधर्माऽनुष्ठानार्हदिवसादाविति । अन्यथा 'वत्सरादिर्मार्गशीर्ष' इति नाममालावचनात् सांवत्सरि.कपर्वाऽपि कार्त्तिकपूणिमायामेव विधेयं स्यात्, न पुनर्भाद्रपद•सित चतुर्थ्यां । तस्मादभिमतधर्मानुष्ठानाऽर्हदिनादौ धात्वादिभिर्व्युत्पत्त्यर्थो नाममाला वा नानुसरणीया, किन्तु स्वसमय सिद्धः सिद्धान्तसंकेतः । स च पाक्षिकशब्दस्य चतुर्दश्यामेव । तथाहि'संते बले वीरियपुरिसक्कारपरक्कमे अट्ठमि चाउछ सि-नागपंचमी. पज्जोसवणा- चाउम्मासएस चउत्थ छट्ठमट्ठमं न करिज्जा पच्छि'ति महानिशीथे । अत्र चतुर्दशीशब्देन पाक्षिकमेबोक्तम् । यतोऽन्यत्रापि प्रायश्चित्ताधिकारे चतुर्दशीशब्दपरिहारेणैव पाक्षि-कशब्दग्रहणम् दृष्टं, न पुनः पाक्षिकचतुर्दशीशब्दयोरेकत्र ग्रहणम् । ।

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168