Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
१४३
साम्प्रतंतीर्थनिदर्शनम् एभ्यस्तपोवद्भ्यो विशिष्टता-दुष्करकारिता, न दृश्यते-न श्रूयते । तत एवेव-तपोवत्स्वेव बलादशठत्वाप्तिः”। अथ ग्रन्थस्य उपसंहारमाह
एवं हि षोडशश्लोकी, विश्वाऽऽप्तश्लोकधारिणी। गुरुतत्त्वप्रदीपस्य, दीपिका जयताच्चिरम् ।। १७ ॥ व्याख्या एवं - प्रागुक्तप्रकारेण, विश्वाप्तश्लोकधारिणी गुरुतत्त्वप्रदीपस्य दीपिकापरनाम्नी चिरं जयतादित्यन्वयः। हि-निश्चितं एवं-प्रागुक्तस्वरूपा षोडशश्लोकी विश्वे-जगत्याप्तोव्याप्तः,श्लोकः-कीर्तिस्तं धरतीति शीलार्थे णिविधानात् विश्वाऽऽप्तश्लोकधारिणी। गुरुतत्त्वप्रदीपस्य-उत्सूत्रकन्दकुदालापरनाम्नो ग्रन्थस्य दीपस्य दीपिकेव दीपिका आधारभूतेत्यर्थः, चिरं-बहुकालं श्रीमहावीरतीर्थ यावत् जयताज्जीयादित्यक्षरार्थः। भावार्थस्त्वयं-अन्यापि प्रदीपाधारभूता काष्टमयी दीपिका षोडशश्लोकी, तथेयमपि। को भावः ? काष्टमयी दीपिका हि चतुर्पु दिशु चतुर्णा दीपानां भूमिः, तत्र प्रति यं (दीपं चतुरस्रमेकैकमासनं, तेषां च सर्वावयवमीलने षोडशावयवा भवन्ति । तथा च षोडशशब्देन षोडशावयवा ग्राह्या...., तेषां श्लोकाकीर्तनस्यो...षोडशश्लोकी। शेषं सुगम मिति ।
इति श्रीमत्तपागच्छनभोङ्गणनभोमणि-श्री विजयदानसूरीश्वरशिष्योपाध्याय श्रीधर्मसागरविरचितायां गुरुतत्त्वप्रदीपदीपिकाऽपरनाम्न्यां स्वोपज्ञषोडशश्लोक्यां सम्प्रति तीर्थनिदर्शन विवरणं । इति श्रीषोडशश्लोकीवृत्तिः सम्पूर्णा ।

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168