Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 162
________________ महावीरजिनस्तोत्रम् भविअंतररायतमोतरणी, परउक्करपुक्करसीहरणी। मरणीइपराकरणी रमणी-मणरीणमुणीजणउद्धरणी ॥१६॥ धरणीअलनिम्मलकित्तिभरोऽभयदाणवरो वरवीरजिणो । कुण उत्तममुत्तिरमारमणं, ममणंतविऊ करुणासरणं ॥२०॥ सरणादवि दुरिअसम्मसमा, परमोपरमोऽहमकामरमा । गरिमानवमानवहीजलही, ववही पणिहीमहणाइमही॥२१॥ त्रिभिर्विशेषकम् व्याख्या-भविकानां-भव्यजीवानां आन्तरारातयः-कर्मशत्रवस्तल्लक्षणे तमसि तरणिरिव। परेषां-परवादिनां उत्करःसमूहस्तस्य पूत्करणं-वादलिप्सया कुत्सितबाढस्वरकरणं, तत्र सिंहवत् रणी-वक्ता, परवादिमृगनाशे सिंह इवेत्यर्थः। मरस्यमृत्योः सम्बन्धिनी नीतिस्तद्गृहाचारः। यद्वा मरणरूपा इतिरुत्पातस्तस्याः पराकरणी-पराकरणं यस्येतीन्प्रत्ययेन, पराकर्तेत्यर्थः। रमणीषु-स्त्रीषु यन्मनश्चित्तं तेन रीणो-रहितो यो मुनिजन:साधुलोकस्तस्योद्धरणी-प्राग्वदिविधानादुद्धर्ता-संसारकूपपाताद्रक्षक इत्यर्थः। धरणीतले निर्मलः कीर्तिभरो यस्य सः। अभयदानेन-सर्वसावद्यप्रत्याख्यानरूपेण वरः-श्रेष्ठः। अनन्तान पदार्थान् वेत्तीति अनन्तविद्, एवंविधः वरवीरजिनः मां करुणाशरणं-कृपाऽऽस्पदं दुःखपीडितत्वादनुकम्प्यमित्यर्थः। उत्तमा मुक्तिरमा-प्रधानमुक्तिश्रीस्तस्याः रमणः-स्वामी करोत्वित्यन्वयः। परम-उत्कृष्ट उपरमो-विरतिर्यस्य स, कुतः ? अधमात् कामरमात्

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168