Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 166
________________ महावीर जिनस्तोत्रम् १५७. पादिसमूहैर्मिलितेत्यर्थः । एवंविधाऽपि अविरला- निचिता निरन्तर स्थिता, न पुनरन्तरालरिक्तास्पदा । सरला- कपटरहिता । तथा च हर्षाकुलिता च अमलतावलिकामिलिता च अविरला चेति विशेषणसमासः । अचला-‍ -परतीर्थिकैरक्षोभ्या। कमलायाःलक्ष्म्या विमलालय इव -1 -निर्मलस्थानकमिव, या माला-स्रग्, यद्वा कमला विमलालयो- दिव्यकमल समूहस्तत्सम्बन्धिनी या माला तां मलति-धारयति या सा, कमलाविभलालयमाला मला । तादृग्माला परिधायिनी शक्रादिसभेति । एवंविधा त्रिशलाप्रसवस्यवीरस्य पर्षद् सभा विभातीत्यन्वयः ||२७|| तिजयस्सरणं विह वप्पतिगं, तव भादि विभाभिदमन्भुदयं । मणिकंचणराययराजिमयं, परभत्तिभरामरनिम्मविअं ॥२८ व्याख्या : - हे जिन ! तव वप्रत्रिकं दुर्गत्रयं विभाति इवो - त्प्रेक्ष्यते त्रिजगच्छरणं । अन्योऽपि वप्रोऽरिपराभूतशरणं भवति, तद्वदिदं वप्रत्रिकं मोहारिपराभूतानां शरणमिति । इह जगति । किंलक्षणं ? विभाभूतं कान्त्याढ्यं, अभ्युदयं सर्वतोऽवाप्तोदयं, मणिकाञ्चनराजतरा जिमयं मणिस्वर्णरजतसमूहात्मकं, क्रमेण मण्यादिसमूहजन्यमित्यर्थः । परेण भक्तिभरण अमरैर्निर्मापि -- तमिति ॥ २८ ॥ एवं थुओ जिणवरो वरवीरवीरो, वीराभिहो समुह सुहवल्लिनीरो ! सम्मंकुरो सिवपुरीपयदं अमुद्द, सद्धम्मसायरजसो दिसऊ सुभद्दं ॥ २६ ॥

Loading...

Page Navigation
1 ... 164 165 166 167 168