Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 164
________________ महावीरजिनस्तोत्रम् १५५ मनाक्षोभने-श्रीवीरमनश्चालने सुष्टु प्रयत्नो यस्याःसा, अखिलोपायाः-मनःक्षोभने सम्पूर्णकारणानि तान् जानातीति 'ज्ञो जाणमुणा'विति मुणादेशः। एवंविधा महेला-स्त्री श्रीवीरमुपेत्य-प्राप्य, मनाग अपिर्गम्यः, मनागपि-स्तोकमपि न क्षमा-न समर्था जाता । तं श्रीवीरं अहमपि-अशक्तोऽप्यहं महामि-पूजयामि। किंलक्षणं ? अहीनमहं-अमानतेजसं, कलहानलेकल्यग्नौ जालमिव-जलसमूह इव ये यमा-महाव्रतानि, तेषु यदालस्यं-प्रमादस्तं हन्ति यः स तं । मदनरूपो यः प्रस्फुरन् फणाभृत्सर्पः, यद्वा प्रस्फुरन्ती फणा यस्य स चासावहिः-सर्पस्तत्र शिखीव-मयूर इव। तथा आंहसं-अंहःसमूहस्तद्रूपं पाणंपर्णसमूहस्तत्रानलजालं- अग्निसमूहस्तद्वदनघो-निष्पापस्तद्वत्समर्थ इत्यर्थः। यद्वा अनलवत् ज्वाले-ज्वालनेऽनघः-समर्थः इति । यद्वा तद्ववज्ज्वालनाद् ज्वालशीलाऽऽभा-कान्तिर्यस्येति । ततश्च मदन-प्रस्फुरत्फणाहिशिखीवाऽसौ आंहसपार्णपरानलजालानघ-- श्चेति विशेषणकर्मधारयः। सुरपादपवदायि-कल्पवृक्षवद्वाछि तार्थदात, पादयोः समीपमुपपादं तस्य रजो-रेणुर्यस्य स तं । परम उत्कृष्टोऽनघो-निष्पापः, मानं हन्तीति मानहः-परिमाणरहितो यो मानः पूजा तस्य पदं-स्थानं । भवकूपे-संसारावटे रटनाटिं कुर्वन्, पतन्-अधो गच्छन् यो-जनो-भव्यलोकस्तं प्रति रज्जुप्रभा-बलवद्दोरसमाः या द्युतयः-कान्तयस्तासां जालं-समूहः तद्रूपधनं-स्वं यस्य स तं । धनदेन-कुबेरेण प्राभृतीकृतं-ढौकितं यत्काञ्चनौघप्रभृतिस्व-स्वर्णमणिमुक्ताफलादिधनं, तस्य यः प्रभाते सूर्योद

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168