Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
महावीरजिनस्तोत्रम् पुरिसुत्तममुत्तमसंतमसं, समसंततिमंतमतीतमदं । मदनातिगनायगमायधरं, घरवासमुदारमदारमहं ॥१७॥ वरकिंकरभावगयामरवं, रविरायतिरक्किअकज्जरबं । मतमुत्तिवहूबहुमानपई, कवयामि कवीकविरं भविअं
॥१८॥ युग्मम् व्याख्याः-पुरिसु० वरकिं०-पुरुषोत्तमं। उद्गतं-निःसत्ताकीभूतं, तमः सन्तमसं-अज्ञानान्धकारं यस्मात् स तं । शमसन्ततिमन्तं-उपशमराजियुतं । अतीतमदं-मदरहितं । (मदनान ) कामान् अतिगा-दूरंगताः गौतमादिसाधवस्तेषां नायकः-स्वामी ( तं)। आयस्य-लक्ष्म्या दिलाभस्य गृहमिव यस्तं। गृहवासो-गृहस्थता तत्र या मुद्-हर्षस्तस्याऽऽरं-अरिभावः कर्म वा यस्य, गृहवासः कुत्सित इत्याधुपदेशदानात् स्वयं त्यक्तत्वात् त्याजकत्वाञ्च। अदारमतिः-न दारेषु-स्त्रीषु मतिर्विद्यते यस्य स तं। वरकिङ्करभावं प्रधानसेवकत्वं गताः-प्राप्ता अमरपाः-सुरपतयो यस्य स तं, रविःसूर्यः, राजा-चन्द्रः, तयोः तिरस्कृतः-किमनयोः कार्य मयि विद्यमाने इतिरूपेण अधःकृतः कार्यरवः-तदीयकार्यशब्दो येन स तं, तत्कार्यस्य स्वयंकृतत्वात् । मता-सम्मता या मुक्तिवधूस्तस्या बहुमाने पतिरिव-भर्तेव । यद्वा मुक्तिवधूबहुमानविषयः पतिरिव यः, तया भर्तृतयाऽऽद्रियत इत्यर्थः। कविना-शुक्रण कवितं-स्तुतंभव्यं-श्रेष्ठमेवंविधं श्रीवीरं अहं कवयामि-स्तौमीत्यन्वयः ॥१७॥१८॥ युग्मम् ।

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168