Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
महावीरजिनस्तोत्रम्
धणि धवलीकयवीसदिसं, सजसाऽमररस्सरसेणमिसं । सविसंजणसंशयकासनलं, समुवेमि तुमंम्मि जिणं शरणं
॥१६॥ पञ्चभिः कुलकम् ।
- व्याख्याः -भुविभा० जलहि० रणरं० धरणी० धणिअं०। भुवि-पृथिव्यां भावुकलापेन-शुभजल्पनेन कलङ्क भव्यजनसम्बन्धि दलयति-नाशयतीति भावुकलापकलङ्कदलस्तं, उकारः 'स्वराणां स्वरा' इति सूत्रेण । दलितं-नाशितं अलिवन्नीलकलासहितं कलिलं-पापं येन स तं । सकलं । शरदिन्दुव (द्लस) न्मुखं यस्य तं। मकारोऽलाक्षणिकः। सह कलाभिर्वर्तते इति भिन्नमेव विशेषणं । दुःखदु:-कृच्छ-कुत्सितवृक्षस्तस्य हतिः-क्षयः तत्र नद्यामन्वर्थेऽवि वेगवज्जलं तदिव । जलधिवत्-समुद्र इव गम्भीरं । अधीर-कातरं चारित्रधर्माद्यनुचितमिति मत्वा त्यजतीति अधीरत्यजस्तं। कनकाचलनिश्चलचित्तयुतं-मेरुवदकम्प्रमनोन्वितं । वरकेसरिवत्-प्रधानसिंहवत् दुर्धर्ष-पराऽपरिभवनीयं । हरेरिन्द्रस्य संमुखं यस्मात् स तं । हर्षाञ्चिताः-समोदास्तैः-शोभन विधिना अर्चितौ सञ्चरणौ-छत्रचामरादिसामुद्रिकलक्षणोपेतपादौ यस्य स तं । रणेन-शब्देन रञ्जिता निर्जरा येन स तं । आर्जवदं-ऋजुस्वभावदायी द्युतिभिनिर्जितो दुर्जयाऽवद्यब्रजो-दुर्धरपापव्रजो येन स तं । मुनिमानसाम्बुरुहालिं-योगिमनोम्भोजेषु षट्पद इव यः स तं। अलमत्यर्थं धवलं-श्वेतं यत् अम्बुनि-जले रमतेक्रीडति । कमलं हि जले वायुना प्रेरितं नृत्यदिवाऽऽभातीति

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168