Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
१४८
महावीर जिनस्तोत्रम्
अर्जितपुण्यं यथा स्यात्तथेति क्रियाविशेषणम् । पुण्यप्रकृतिसम्पादनपुरस्सरं मोहान्धकारम् नाशयेत्यन्वयार्थः । शेषाणि तु विशेषणानि वाणीसम्बन्धीनि । तथाहि — किंलक्षणा गीः ? वादरता मदहेसुहेतुप्रयोगयुता-वादोद्यतानामन्यतीर्थिकानां अमदहेतवोऽहङ्कारनाशकारणानि ये सु-शोभना असिद्धता-विरुद्धतादिदोषकलङ्कविकलाः पक्षधर्मत्वादिसकल हेतुरूपोपेता वा हेतवोऽभिमतसाध्यसाधकलिंगानि तेषां प्रयोगो-रचना तेन युता, जगन्मालयशालयमालभिका | जगल्लक्ष्मीनिलय हेतुत्वेन ये शालयमा -निरतिचार महाव्रतानि तेषामालभिका-प्रापिका, अ (वि) मया - भयरहिता, 'समिण'त्ति षठ्यर्थे तृतीया प्राकृतबहुलवचनात् शमिनः साधोर्वरवर्मसमा प्रधान सन्नाहतुल्या, क्रोधादिभिः सह युद्धविधाविति गम्यम् । दिवसाधिपतिः - सूर्यस्तस्य प्रकाशकत्वेन यद्यशस्तस्य - नाशकरी - स्पर्द्धिनी, स्वयं प्रकाशकत्वापेक्षयाल्पप्रकाशकत्वात् । यतो वाणी सूक्ष्मार्थप्रकाशकरी - निगोदा दिसूक्ष्म पदार्थप्रकाशकर्त्री, नचैवं सूर्यस्य, स्थूलपदार्थप्रकाशकत्वमपि देशत एव । श्रवणानि श्रोत्राणि तद्रपा अञ्जलयस्ताभिः पाने सुधेव अमृतमिवाविरतिहेतुः पथ्यरूपा च । अनशुभा - अशुभवर्जिता हिंसाद्युपदेशशून्या । विबुधावलिकाः - पण्डितश्रेणयस्तेषां सदाचारप्रवर्त्तने पदार्थसम्यग्परिज्ञाने वादादौ च बलम् यस्याः सा स्वार्थे के प्रत्यये विबुधावलिकाबलिकेति । अनलीका अलीकरहिता, ह्रस्वत्वं च प्राकृतवशात् । कलिकालः - पञ्चमारकस्तस्य यद् बलं - दुःखजननस्वभावस्तद्रूपो योऽभिस्तत्र जलस्येवोद्गमो - प्रादुर्भावो यस्याः
:
-

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168