Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
१४६
महावीर जिनस्तोत्रम्
जयई अल-निम्मलसीलजसं, रसिआमररंजणवाणिरसं । 'जयमासमयास मजम्मवरं, सिरिवीरजिणं जिअ पंचसरं ॥ ६ ॥ अचलंतरझाणयणाणधरं मधुरंरण मंगणसंगहरं । चररम्ममहं वरथुत्तपहं, सुपहं पणए विणएणऽनहं ||७|| चतुर्भिः कलापकम् |
1
-
व्या० - दुहदो० जणरं० जयई० अचलं० । अहं विनयेन वीरजिनं वरस्तोत्रपथं प्रधानस्तुतिमागं प्रणये - प्रापयामीत्यन्वयः । शेषाणि वीरविशेषणानि । यथा दुःखद्रोहमनोभवानां - कृच्छ्रपरवञ्चनमदनानां रोधक - निरुम्भकं, करुणारसभासुरं कृपारसदीप्तम्, आशु शीघ्रम् रमा लक्ष्मी यस्मात्, रमणीरतेषु कान्ताssसक्तेषु नीरतं - रतिरहितं, आ-समन्तात् रणं संग्रामं द्यति-छिनतीति आरणदं, आरणम् - सुयुक्तिकं शब्दम् ददातीति वा आरणदं । नतो नाकिजो- देवसमूहो यस्य स तं सुनयान्-शोभननयान् जनयतीति, मकारोऽलाक्षणिकः । जनरंजन देशनदानवरः-भव्यलोकधर्म देशनादाने श्रेष्ठः, नवरङ्गसुराङ्गनागीतगुणम्-प्रत्यग्ररागत्रतीभिर्देवीभिर्गानविषयीकृता गुणा यस्य, शोभनगुणैरलङ्कृता- सहिता कायकला-शरीरशोभा यस्येति तं कं सुखं मलयतिधारयतीति कमलस्तं, कमलायाः - लक्ष्म्या आलय आश्रय एवंविधं यल्लीलया बल-प्रयासमन्तरेणौजः तेन हेतुभूतेनाऽगस्य, अर्थात् मेरुपर्वतस्य चलश्चलनं - कम्पनं यस्मात् स तं जयाल्लभ्या मा-लक्ष्मी जयमा समता च सर्वजीवेषु तुल्यता-अनुकम्प्यतया निर्विशेषम

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168