Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 154
________________ महावीरजिनस्तोत्रम् १४५ ___ व्या०-जिणवी० । जिनवीरपदाम्बुजयामलकं-श्रीवीरचरणाम्भोजयुगं नमत-प्रणमत इत्यन्वयः । किंभूतं ? लयवल्लिजलं-मोक्षवल्लिवृद्धये जलमिव । जलध्यङ्कतलं-समुद्रलक्षणलाञ्छिततलं, जलरुड्दलकोमलं-कमलदलमिव मृदु, उम्मलह-प्राबल्येन कर्ममलापहारि । यद्वा स्वयं बाह्यतोऽपि रेवादिमलरहितं । अम्बरदीपप्रतापलभं-सूर्यवत्प्रतापस्य लभो-लाभो यस्मात्, तत्सेवया सूर्यप्रतापभाग भवतीत्यर्थः ॥२॥ . मुणिणायगवायगविंदथुअं, थुइसन्थमुहेण सुहेण सुहं । णमहंतरभावपहावभर-भरया सरया सिरिवीरपयं ॥३॥ व्या०-मुणि। मुनिनायकाः-सूरयो वाचका-उपाध्यायास्तेषां वृन्देन स्तुतं, न पुनर्वचोमात्रेण, किन्तु स्तुतिशास्त्रमुखेन-वीरस्तवाध्ययनादिरूपेण, अन्येऽपि वीरगुणगानपरायणा भवन्त्वित्यभिप्रायेण स्तुतिशास्त्ररचनयेत्यर्थः । सुखेन-श्रमाभावेन-अग्लानिभावेन । किंलक्षणा यूयं ? आन्तरभावप्रभावभरं भराः-अभ्यन्तरभक्तिजन्येन महिमभरेण व्याप्ता इत्यर्थः, त एव स्वार्थे कः, आन्तरभावप्रभावभरन्त (म्भ ) रकाः। सु-अतिशयेन रताः-स्तुतिकरणाऽऽसक्ताः ॥३॥ दुहदोहमणोहवरोहकर, करुणारसभासुरमासुरमं । रमणीरयणीरयमारणयं, णयणाइवयं सुणयंजणयं ॥४॥ जणरंजणदेसणदाणवरं, णवरंगसुरंगणगीअगुणं । सुगणंकिअकायकलं कमलं, कमलालयलीलबलागचलं॥५॥

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168