Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 150
________________ साम्प्रतंतीर्थनिदर्शनम् चितायां गुरुतत्त्वप्रदीपदीपिकापरनाम्न्यां स्वोपज्ञषोडशश्लो-क्यामुत्कृष्टोत्सूत्रिनिरूपणविवरणम् ॥ अथ सिंहावलोकनन्यायेन यस्य तीर्थस्याऽऽपद्विधायकोत्सूत्रिकण्टकानुद्धृत्य कुण्ठिताऽऽस्या कृतास्तत्तीर्थं सम्प्रति किं नाम ? कस्याऽऽचार्यस्याज्ञावर्ति ? चेति नामग्राहेणोपदर्शयन्नाह - तीर्थं च साम्प्रतं श्रीमान्, पारिशेष्यात्तपागणः । सूरी विजयदानाऽऽज्ञा-वर्ती ज्ञानादिरत्नभाक् ॥ १६ ॥ व्याख्या - तीर्थं च साम्प्रतं पारिशेष्यात सूरी विजयदानाज्ञावर्ती ज्ञानादिरत्नभाग श्रीमान् तपागणो ज्ञातव्य इत्यन्वयः । चकार उद्देशान्तर्गततीर्थपदपरामर्शकः । तीर्थं साध्वादिसमुदायलक्षणं तच्च साम्प्रतं सम्प्रतिकालीनं वार्तमानिकमित्यर्थः । पारिशेष्यादन्यत्राऽऽगमानुयायिसाध्वादिसमुदायस्याऽदर्शनात् । श्रीमान - सश्रीकः - अनुत्तर इत्यर्थः, तपागणः- तपागच्छः, सूरीड्विजयदानः - श्री विजयदानसूरीशः । ईशत्वं च हीरविजयसूर्या - द्यपेक्षयाऽवगन्तव्यम् । श्रीहीर विजयसूरीणां गुरव इत्यर्थः । तस्याज्ञया वर्तितुं शीलमस्येति सूरीविजयदानाऽऽज्ञावर्ती, ज्ञानमादिर्येषां तानि ज्ञानादीनि ज्ञानदर्शनचारित्राणि, तान्येव रत्नानि तानि भजत इति ज्ञानादिरत्नभागित्यक्षरार्थः । भावार्थस्त्वयंपारिशेष्यादिति । परं सम्प्रतीह भरतक्षेत्रे तपागणव्यतिरिक्तं तीर्थकराऽऽज्ञावर्ति तीर्थ नास्तीति दर्शनार्थम् । तपोवन्नाममात्रधारकपार्श्वस्थादिसमुदायलक्षणे तीर्थाऽऽभासे तीर्थेऽतिप्रसङ्गवारणाय सुविहितचक्रवर्ति श्रीविजयदानसूरीश्वर श्रीहीरविजयसूर्यादीना १४१

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168