Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
षोडशश्लोक्यां
जिनदत्ताद्युक्तप्रमाणीकरणाऽऽग्रहयोः पुष्टिकरणं तद्वैपरीत्ये च शुद्धमार्गे शुद्धमार्गश्रितानामपि सन्देहोत्पादनपूर्वक निह्नत्रमार्गाभिमुखीकरणं चेत्यादिदोषैः प्रवचनोपघातकस्योत्सूत्रस्य समानत्वादेव ह्निवाधिकत्वं । सम्यक्त्व साफल्यं तु मिथ्यात्वबन्धमाश्रित्यैव बोध्यम् । यतो मिथ्यात्वाभिमुखस्यापि तादृशः सम्यग्दृशस्तदानीं सम्यक्त्वसद्भावात् तथाविधचित्तसङ्क्लेशाभावेन तामिथ्यादृश इव न मिध्यात्वबन्धः, किन्तु किञ्चिद्विहीनः । एवं मिथ्यादृशोऽपि तादृशो न निह्नवदृश इव मिध्यात्वबन्धः, किन्तु किञ्चिद्विहीनः । उक्तं च
१४०
मिथ्यात्वबन्धमाश्रित्य, लौकिकेभ्योऽधमा अमी ।
उत्तमाः पुनराश्रित्य ग्रन्थिभेद क्रियाफले ॥ १ ॥ [ गुरुतत्त्वप्रदीपे वि० १ - श्लोकः ३८ ] इति । यद्वा त्रयाणामपि • समानत्वेपि उत्सूत्रभाषित्वे 'कारणभेदादऽवश्यं कार्येऽपि भेद एवे 'तिन्यायात् श्रद्धानभेदादुत्सूत्रवति वचस्यपि कश्चिद् भेदः स्वीकर्त्तव्यः । स च सूक्ष्मदृशाऽवलोक्यमानः सम्यक्त्वमाहात्म्यात् सम्यग्दृशस्तथा तत्पक्षपातिनो न्यूनत्वमेवोत्कृष्टोत्सूत्रिणः सकाशात् सूचयति । अत एवोत्कृष्टोत्सूत्रिणः समीपवर्तिनावेव तथाविधसम्यगृहमिध्यादृशावृक्ताविति बोध्यम् । न च सम्यग्दृशः स्थिरतया निह्नवपक्षपातित्वं कथं भवेदिति शङ्कनीयं, मिथ्यात्वाभिमुखस्य कस्यचित् तथाविधसामग्रीवशादनन्तानु'बन्धिकषायोदयिनो निह्नवपक्षपातिनो भवत्येवेत्यलं विस्तरेण ।
इति श्रीविजयदानसूरीश्वर शिष्योपाध्याय - श्रीधर्मसागर विर

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168