Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 147
________________ १३८ षोडशश्लोक्यां मपि तथाविधसामग्रीवशादन्यतीर्थिकलिंगधारिविशेषेऽतिव्याप्तिरतस्तदपक्रान्तये 'जैनमार्गे'त्यादि । निह्नवश्रद्धानेऽपि तथाविधाsन्यतीर्थिकस्य नोत्कृष्टोत्सूत्रित्वं, अन्यतीर्थिकत्वेन जनानां विश्वासस्थानाभावात्। ननूपेक्षक-निह्नव-निह्नवपक्षपातिनां क्रमेण यज्जघन्य मध्यमोत्कृष्टोत्सूत्रित्वमुक्तं तत्केनाभिप्रायेणेतिचेत् । उच्यतेउत्सूत्रं प्रवचने तावद् द्वेधा-निश्चयनयाभिमतं व्यवहारनयाभिमतं च। तत्र निश्चयनयाभिमतं तावत् शैथिल्यमप्युत्सूत्रमेव । व्यवहारनयाभिमतं तु प्रवचनार्थस्याऽन्यथाभाषणमेव । उक्तं चउत्सुत्रकन्दकुद्दाले'निश्चयो नय उत्सूत्रं, शैथिल्यमपि मन्यते । सूत्रार्थस्यान्यथाऽऽख्यानं, व्यवहारनयः पुनः॥ [गु० वि० १, श्लो० १४ ] अस्य वृत्तिः-"निश्चयो नयः शैथिल्यमपिश्लथत्वमपि उत्सूत्रं मन्यते। अत्र शास्त्रे अविरतसम्यग्दृष्टिश्रावकाणामविरतत्वं देशविरतश्रावकाणामविरतविभागश्चोत्सूत्रतया निश्चयनयाभिप्रायेण सन्नपि न विवक्षितः। पार्श्वस्थादीनां तु श्लथत्वं नियमभङ्गरूपतयाऽत्यन्तदुर्गतिहेतुरिति भणित्वोत्सूत्रतया विवक्षितं परिज्ञयं, शास्त्रस्यास्योत्सूत्रकन्दकुहाल इत्यपरनामत्वादन्तिमविश्रामे पार्श्वस्थादिश्लथत्वस्यैव निराकृतत्वात् । पुनर्व्यवहारनयः सूत्रार्थस्य-सिद्धान्तार्थस्याऽन्यथा-विपरीतमाख्यानं-प्ररूपणं उत्सूत्रं मन्यत इत्युभयरूपमप्युत्सूत्रं दर्शितम्। उत्सूत्रं लोकोत्तरं मिथ्यात्वं भण्यते ।" तत्र निश्चयनयाभिमतं चेह ग्रन्थे न व्यवहृतं, तेन तथाविधप्रवचनो--

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168