Book Title: Dharmsagar Granth Sangraha
Author(s): Labhsagar Gani
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 145
________________ १३६ षोडशश्लोक्यां रिक्तः सङ्घबाह्य एव भवति । परं तीर्थभीरुतया तीर्थपार्श्ववर्त्यवगन्तव्यः। निह्नवस्तु तीर्थाद् दूरवर्ती सर्वथा पङ्क्तिबाह्योऽस्पृश्य इत्यर्थः। उक्तं चोत्सूत्रकन्दकुदाल एव त्याज्यः कुगुरुसंसर्गो, गुरुतत्त्वेक्षणोन्मुखैः । पार्श्वस्थादिर्बहिस्थश्च, कुगुरुर्दशधा मतः।। [गु०वि०१ श्लोक-१५] अस्य वृत्तिः-"स्पष्टः । नवरं-पार्श्वस्थादिः पञ्चधा । यदाह 'पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो। अहछन्दो वि अ एए, अवंदणिज्जा जिणमयंमि' ॥१॥ इति । बहिःस्थोऽपि पञ्चधा तं वक्ष्यतीत्युभयं दशधा । ननु पार्श्वस्थबहिःस्थयोरत्र किमन्तरम ? पार्श्वस्थस्यापि वस्तुतो वस्त्वन्तराद् बहिर्भवनात् । उच्यते-जनेऽपि स्वकुटुम्बबहिःपतितस्यापि कस्यचिदपांक्तेयत्वास्पृश्यत्वाद्यदर्शनात् अपरस्य कस्यचिदपाङ्क्ते. यत्वास्पृश्यत्वादिदर्शनाच्च । अत्र पार्श्वस्थः सङ्घाद्वेषात् सङ्घस्य पार्वेऽवस्थातुं लभते । इदमागमोक्तम् स्वकर्मनामाऽस्य । यदाह 'सो पासत्थो दुविहो, सव्वे देसे य होइ नायव्वो। सव्वंमि नाणदंसणचरणाणं जो उ पासंमि'॥२॥त्ति स्पष्टा । . नवरं-ज्ञानदर्शनचारित्राणि सङ्घस्तस्य पार्वे यस्तिष्ठतीति गम्यते। पार्श्वस्थस्य क्वचिदुत्सूत्रप्ररूपकस्याप्यनवस्थितकोत्सूत्रत्वेन प्रवचनसाधर्मिकत्वेन विवक्षितत्वात्। बहिःस्थस्य पुनः सङ्घ द्वेषादप्रेक्ष्यमुखत्वेन सङ्घस्य पार्वेऽवस्थानाऽभावः प्रवचनसाधमिकत्वाभावादस्य । यदाह-दस ससिहागा सावय, पवयणसाहम्मिया न लिंगेण ।

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168